SearchBrowseAboutContactDonate
Page Preview
Page 1285
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३५१४ चरक-संहिता। [योनिव्यापचिकित्सितम् औचित्याद यस्य यत् सात्म्यं देशस्य पुरुषस्य च। अपथ्यमपि नैकान्तात् सन्त्यज्य लभते सुखम् ॥ वाहीकाः शाड्बलाश्चीनाः शुनीका यवनाः शकाः। मांसगोधूममाध्वीक-शरत्रवैश्वानरोचिताः॥ मत्स्यसात्म्यास्तथा प्राच्याः क्षीरसात्म्याश्च सैन्धवाः । अश्मकावन्तिकानान्तु तैलाम्लं सात्म्यमुच्यते ॥ कन्दमूलफलं सात्म्यं विद्यान्मलयवासिनाम् । सात्म्यं दक्षिणतः पेया मण्डश्चोत्तरपश्चिमे । मध्यदेशे भवेत् सात्म्यं यवगोधूमगोरसाः ॥ सात्म्यं ह्याशु बलं धत्ते नातिदोषञ्च वह्वपि । योगैरेवं चिकित्सन् हि देशाद्यज्ञोऽपराध्यति ॥ तेषां तत्सात्म्ययुक्ताश्च क्योऽवस्थायुतास्तथा। आयुर्बलशरीरादि-भेदा हि बहवो मताः ॥ १२२ ॥ - गङ्गाधरः-अपथ्यस्यापि सात्मस्यावर्जनमाह-औचित्यादित्यादि । यस्य जनस्य देशस्यौचित्याद यद द्रव्यं सात्म्यं पुरुषस्य प्रकृत्यौचित्याच यस्य यत् सात्म्यं तदुपस्थितरोगेष्वपथ्यमपि नैकान्तात् त्यजेत् । ऐकान्तात् सन्त्यज्य न मुखं लभते। तत्र देशौचित्यात् सात्म्यमाह-वाहीका इत्यादि। वाडीकादयः देशौचित्यात् मांसादुप्रचिताः। प्राच्या मत्स्यसात्म्याः। सैन्धवाः क्षीरसात्म्याः। अश्मका आवन्तिकाश्च तैलाम्लसात्म्याः। मलयवासिनः कन्दमूलफलसात्म्याः। पेयासात्म्याः दाक्षिणात्याः। उदीच्याः पाश्चात्याच मण्डसात्म्याः। मध्यदेशवासिनो यवगोधूमगोरससात्म्याः। तेषां तत्सात्म्य. युक्तास्तथा वयोऽवस्थायुताश्च आयुर्बल शरीरादिभेदा बहवो मता इति ॥ १२२ ॥ . चक्रपाणिः- उक्तप्रयोगैरेव चिकित्सां कुर्वाणो दोषमाह-योगैरेवमित्यादि । देशादीत्यनेन प्रशाप्रज्ञानात् देशादिविगुणचिकित्साकारकं पुरुषं क्षयति। अपराध्यतीति मेसितं साभयति। शाम इनादिशब्देन बयोबहादीनां प्रहम्। क्योपए रीरप्रकृतिरूवानां २. 13 For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy