SearchBrowseAboutContactDonate
Page Preview
Page 1283
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३५१२ चरक-संहिता। (योनिच्यापचिकिस्सितम् उपक्रमाणां करण(1)प्रतिषेधे च कारणम् । व्याख्यातमबलानां सविकल्पानामवेक्षणे ॥ ११६ ॥ मुहम्महुश्च रोगाणामवस्था आतुरस्य च । अवेक्षमाणस्तु भिषक चिकित्सासु न मुह्यति ॥ ११७ इत्येवं षड्विधं कालमनवेक्ष्य भिषगजितम् । प्रयुक्तमहिताय स्याच्छस्यस्याकालवर्षवत् ॥ ११८ ॥ व्याधीनामृत्वहोरात्र-वयसां भोजनस्य च। विशेषो भिद्यते यस्तु कालावेक्षः स उच्यते ॥ ११९ ॥ वसन्ते श्लेष्मजा रोगाः शरत्काले तु पित्तजाः। वर्षासु वातिकाश्चैव प्रायः प्रादुर्भवन्ति हि ॥ गङ्गाधरः-उपक्रमाणामित्यादि। यस्योपक्रमस्य यत्र यत्र (करणस्याप्रतिषेधस्तत्र ) करणप्रतिषेधे कारणं व्याख्यातं षड़पक्रमणीये। अबलानां सविकल्पानामवेक्षणे पूर्व व्याख्यातमिति ॥ ११६ ।। गङ्गाधरः-एवं सति मुहुर्मु हुश्च रोगाणामातुरस्य चावस्थामवेक्षमाणो वद्यश्चिकित्सायां न मुह्यति ॥ ११७ ॥ गङ्गाधरः-इति षटकालावेक्षणप्रयोजनमाह-इत्येवमित्यादि। इत्येवं षद् कालमनवेक्ष्यानालोच्य भिषगजितं प्रयुक्तमहिताय स्यात्, शस्यस्याकालवर्षवत् ॥१८॥ गङ्गाधरः-कः पुनः कालावेक्ष इत्यत आह-व्याधीनामित्यादि। व्याधीनां वातादिजातानां योऽपृातूनां विशेषो भिद्यते यश्चाहर्विशेषो भिद्यते यश्च रात्रिविशेषो भिद्यते यश्च वयसो विशेषो भिद्यते यश्च भोजनस्य विशेषो भिद्यते, स स विशेषः कालावेक्षः कालावेक्षणमुच्यते ॥ ११९ ॥ गङ्गाधरः-तद्यथा-वसन्त इत्यादि। सन्तादिषु श्लेष्मरोगादयः For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy