SearchBrowseAboutContactDonate
Page Preview
Page 535
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १७१२ चरक संहिता। रोगभिपग्जितीयं विमानम् शतम्। वर्षशतं खल्वायुषः प्रमाणमेतस्मिन् काले सन्ति चाधिकोनवर्षशतजीविनो मनुष्याः। तेषां विकृतिवज्जैः प्रकृत्यादिबलविशेषैरायुषो लक्षणतश्च प्रमाणमुपलभ्य वयस्त्रित्वं मानधालित्यनेन न पौनरुक्ताम् । वायुपायं वायुबहुलं क्रमेण जीर्ण वय उच्यते आवर्षशतम्। ननु वर्षशतादूर्द्ध किं न वय इत्यत आह-वर्षशतमित्यादि। आयुषः प्रमाणं खलु वर्षशतमेवास्मिन् काले कलियुगे इत्यन्ये तन्न शतायुर्वे पुरुषः, शतायुषः पुत्रपौत्रान् वृणीष्वेत्यादिश्रुतीनां सर्वयुगायुर्विषयखात् । अस्मिन् काले इत्यस्मिन् कल्पे, कालोऽल्परूपः इत्यपरे। वस्तुतस्तु आयुषः प्रमाणं खलु वर्षशतम् । तस्य प्रत्यक्षतः प्रमाणमाह-अस्मिन् काले सन्तीत्यादि। अस्मिन् काले चरकाधिष्ठितकालो यस्तस्मिन् कालेऽधिका वर्षशतजीविनो मनुष्याः सन्तीति चरकस्य प्रत्यक्षदृष्टं प्रमाणं बोध्यम् । विस्तरेण सत्तफलव्याख्यानेनैतद व्याख्यातम् । ननु येषां न वर्षशतमायुस्तेषां वयसस्त्रैविध्यं कथं विभक्तव्यमित्यत आह -तेषामित्यादि। तेषां परीक्ष्याणां मनुष्याणां विकृतिवर्जः प्रकृत्यादिबलविशेषैः प्रकृतिसारसंहननप्रमाणसात्म्यसत्त्वाहारशक्तिव्यायामशक्तिवयोभिः पूर्वोक्तबलविशेषेरायुषः प्रमाणमुपलभ्य लक्षणतश्च जातिसूत्रीयोक्तलक्षणतश्चायुषः प्रमाणं यस्य यत् तदुपलभ्य वयस्त्रिखं वयसः मैकदैव षष्ठिवर्षादूद्ध धात्वादिहानिरिति दर्शयति । अस्मिन् काल इति कलौ। अथाधिकवर्षजीविनां कथं वयस्त्रित्वं विभक्तव्यमित्याह-तेषामित्यादि। प्रकृत्याद्या दश परीक्ष्या अत्रैव "प्रकृतिसार” इत्यादिनोक्ताः। तत्र "विकृतिवज्जैः” इत्यनेन विकृतेः परित्यागः कृतः। तेन प्रकृतिसारादीनां बलविशेषैः प्रवरावरमध्यभेदभिन्नप्रकृत्यादिभेदेन कृतैः प्रवरावरमध्यरुपैरायुषः प्रमाणं प्रवरावरायपलभ्य वयस्त्रित्वं विभजनीयम् । एतेन यस्य प्रकृतिबलमुत्तमं श्लेष्मप्रकृतेः समप्रकृतेर्वा, तस्यायुर्दीर्घ भवति, हीने तु प्रकृतिबले हीनम् । एवं सारादावपि ज्ञेयम् । एवज्ञ यः प्रकृत्यादीनां सर्वेषामेवोत्तमेन बलेन युक्तः, स शताधिकं जीवति। तेन तस्य विंशतिवर्षाधिकं शतं यद्यायुरुपलभ्यते, तदा पूर्वोक्तवयोविभागानुमानादापत्रिंशद्वर्षाणि स बालो भवति, द्विसप्ततिवर्षश्च स मध्यः, शेषे तु वृद्धः। यस्तु प्रकृत्यादीनां मध्यमत्वेनाल्पायुरशीतिवर्षोऽवधार्यते, स पञ्चविंशतिवर्षाणि बालः, पञ्चाशतं मध्यः, अतो वृद्ध इत्यादि विभजनीयम् । न केवलं प्रकृत्यादिना आयुरवधार्यम्, किन्तु आयुर्लक्षणैरपि शरीरप्रतिबद्धैः शारीरे वक्तव्यरित्याहआयुषो लक्षणतश्चेति। आयुर्लक्षणेनापि वयोऽवधार्य बाल्यादिविभागः कर्तव्यः इत्यर्थः, For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy