SearchBrowseAboutContactDonate
Page Preview
Page 536
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८म अध्याय म अध्यायः । विमानस्थानम्। १७१३ विभजेत्। एवं प्रकृत्यादीनां विकृतिवर्जानां भावानां प्रवरावरमध्यविभागेन बलविशेषं विभजेत्। विकृतिबलत्रैविध्येन दोषवलं त्रिविधमनुमिमीते। ततो भैषज्यस्य तीक्ष्णमृदुमध्यविभागेन त्रैविध्यमेव विभज्य यथादोषं भैषज्यमवचारयेत् । आयुषः प्रमाणज्ञानहेतोः पुनरिन्द्रियस्थाने जातिसूत्रीये च लक्षणान्युपदेक्ष्यन्ते ॥ १०४॥ वैविध्यं विभजेत् । विकृत्या तु नायुषः प्रमाणमुपलभ्यते स्वाभाविकं, परन्खरिष्टलक्षणेनासाध्यसमुपलभ्यते । एवंप्रकारेण वयस्तश्चातुरं परीक्ष्यातुरस्य बलप्रमाणविज्ञानं दर्शयति-एवमित्यादि। एवमुक्तपकारेण विकृतिवर्जानां प्रकृत्यादीनां प्रकृतिसारसंहननप्रमाणसाम्ये सत्त्वाहारशक्तिव्यायामशक्तिवयसां भावानां प्रवरावरमध्यविभागेनातुरस्य बलविशेष प्रवरावरमध्यरूपं बलं विभजेत्। इत्यातुरस्य बलप्रमाणविज्ञानहेतोः परीक्षा दर्शिता ।। दोषप्रमाणविज्ञानहेतोरातुरपरीक्षा दर्शयति-विकृतीत्यादि। विकृतेर्विकारस्य धातुवैषम्यनिमित्तस्य ज्वरादेर्बलत्रैविध्येन त्रिविधवलेन तत्र विकारं हेतुदोषदृष्येत्यादौ पूवोक्तेन यस्य हीत्यादिनोक्तेन त्रिविधं प्रवरावरमध्यभेदेन त्रिधा दोषबलं वातपित्तकफानां प्रवरावरमध्यबलमनुमिमीते भिषगिति शेषः। ततो दोषाणां प्रवरावरमध्यबलानुमानात् भेषजस्य तीक्ष्णमृदुमध्यविभागेन त्रैविध्यं विभज्य यथादोषं प्रबरबलदोषे तीक्ष्णभैषज्यम् अवरवलदोषे मृदुभैषज्यं मध्यबलदोषे मध्यभैषज्यमवचारयेत् । इत्यातुरस्य बलदोपप्रमाणविज्ञानहेतोः परीक्षा दर्शिता ।। अथातुरस्यायुःप्रमाणविशानहेतोः परीक्षां दशयति-आयुष इत्यादि। अत्रातुरस्य परीक्षेत्यनुवर्तते। तेनायुषः प्रमाणविज्ञानहेतोरातुरस्य अयञ्च स्तोकन्यूनाधिकशतायुषां बाल्यादिविभागः कर्तव्यः । येपान्तु विंशतिवर्षादि परमायुषो मानम्, न तेषां तदनुमानेन वयोभेदः, ते ह्यप्राप्तमध्यावस्था एव नियन्ते। प्रकृत्यादिविभागेन शरीरबलपरीक्षामुक्तामुपसंहरति-एवमित्यादि। दोषबलन्तु यथा शरीररूपदेशपरीक्षया परीक्ष्यम्, तदाह-विकृतिबलेत्यादि। शरीरबलदोषवलपरीक्षार्थ शरीरपरीक्षां प्रति ज्ञानमभिधाय पुनरायुःप्रमाणशानाथ शरीरपरीक्षामतिदिशति-आयुष इत्यादि। इन्द्रियेष्धिति इन्द्रियस्थानाध्यायेषु। तन्द्रिये वर्णादिविकृत्या रिष्टरूपहसितमायुर्ज्ञातव्यम्, जातिसूत्रीये शारीरे च जन्म. प्रतिबद्धः लक्षणैर्दीर्घायुष्य ज्ञातव्यम् ॥ १०४ ॥ २१५ For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy