SearchBrowseAboutContactDonate
Page Preview
Page 534
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८म अध्यायः विमानस्थानम् । १७११ जीर्णमिति। तत्र बालमपरिपक्वधातुमजातव्यञ्जनं सुकुमारम् अक्ल शसहमसम्पूर्णवलं श्लेष्मधातुप्रायमाषोडशवर्ष, विवर्द्धमानधातुगुणं पुनः प्रायेणानवस्थितसत्त्वमात्रिंशद्वर्षमुपदिष्टम् । मध्यं पुनः समत्वागतबलवीर्यपौरुपपराक्रमग्रहणधारणस्मरणवचनविज्ञानसबंधातुगुणं बलस्थितमवस्थितसत्त्वमविशीय॑माणधातुगुणं पित्तधातुप्रायमाषष्टिवर्षमुपदिष्टम् । अतः परं हीयमानधात्विन्द्रियबलवीर्य-पौरुषपराक्रमग्रहणधारण-स्मरणवचनविज्ञानं भ्रश्यमानधातुगुणं वातधातुप्रायं क्रमेण जीर्णमुच्यते आवर्षकालप्रमाणापेक्षिणीति विशेषणम् । त्रिविधं व्याकरोति--बालमित्यादि। तत्र बालं वयो द्विविधमित्यभिप्रायेणाह-तत्रेत्यादि। अपरिपक्वधातु सव्वतोभावेन अपकरसरक्तमांसादिधातु तथा अनातव्यञ्जनं जातोत्तरकालजव्यञ्जनानि श्मश्रुप्रभृतीनि न जातानि यत्र तदजातव्यञ्जनम्। सुकुमारं सुष्टुकौमार्यशालि। श्लेष्मधातुपायं श्लेष्मप्रधानशरीरम्। ईदृशमाषोडशवर्ष बालं वय एकं, ततः षोड़शाब्दमारभ्य त्रिंशद्वर्षपश्यन्तं विवर्द्धमानधातुगुणं प्रायेणानवस्थितसत्त्वं बालं वयस्तरुणं यौवनमुपदिष्टम् । तच न श्लेष्मप्रायं न वा पित्तप्रायम् । मध्यवय आह-मध्यमित्यादि। समखागतं विवर्द्धमानबलादिधातुगुणपरित्यागेन समलं स्थिरखमागता वलादयो यत्र तत् तथा। ग्रहणमर्थतो ग्रहणं, धारणं शब्दतः, बलस्थितं वलेन स्थितं न हीयमानवलम् । अवस्थितसत्त्वं न बनवस्थितं मनः। अविशीर्यमाणधातुगुणम् अक्षीयमाणधातुगुणं पित्तधातुप्रायं पित्तबहुलम् एवंभूतं त्रिंशद्वर्षाद्ध पष्टिवत्सरपर्यन्तं मध्यं वय उपदिष्टम् । अतः परं षष्टिवर्पत ऊद्ध हीयमाना धाखादयो यत्र तत् तथा। भ्रश्यमानधातुगुणं धातूनां क्रमेण वर्द्धमानबलादिखादयो गुणा भ्रश्यमाना भवद्भशा यत्र तत् तथा। धातवः क्षीयन्ते विवर्द्धमानगुणींनाश्च भवन्तीति हीय. या गतिर्भवतीत्यर्थः। यथास्थूलभेदेनेतिवचनात् बालबालतराद्यवस्थाभेदादधिकमपि क्यो भवतीति दर्शयति। बालो द्विविधः-- अपरिपक्वधातुः आ पोडशवर्षात् , तथा वर्द्धमानधातुः आ त्रिंशत्तमात् । तदेतयोर्बालयोरुपयुक्तत्वेन भेदमाह-तत्रेत्यादि। षोडशवर्षीयबालोऽल्पभेषजमृद्भेषजत्वादिना शास्त्रे वक्तव्यः, तदृद्ध बालोऽपि नाल्पभेषजत्वादिना तथोपचर्यते। क्रमेणेति For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy