SearchBrowseAboutContactDonate
Page Preview
Page 1059
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ९म अध्यायः इन्द्रियस्थानम्। २२२१ शरीरान्ताश्च शोभन्ते शरीरञ्चोपशुष्यति । बलश्च हीयते यस्य राजयक्ष्मा हिनस्ति तम् ॥ ५॥ अंसाभितापो हिका च दर्शनं शोणितस्य च । आनाहः पार्श्वशूलञ्च भवत्यन्ताय शोषिणः ॥६॥ वातव्याधिरपस्मारी कुष्ठी रक्ती ® तथोदरी। गुल्मी च मधुमेही च राजयक्ष्मी च यो नरः॥ अचिकित्स्या भवन्त्येते बलमांसक्षये सति। मन्देष्वपि विकारेषु तान् भिषक् परिवर्जयेत् ॥७॥ विरेचनहतानाहो + यस्तृष्णानुगतो नरः। विरिक्तः पुनराधमाति यथा प्रतस्तथैव सः॥८॥ गङ्गाधरः-शरीरान्ताश्चेत्यादि। यस्य शरीरान्ता हस्तपादायन्तावयवाः शोभन्ते पुष्टिवणेप्रभादिभिः साधुभावा भनन्ति शरीरश्चान्तराधिर्मध्यकाय उपशुष्यति बलमपि च हीयते, तं राजयक्ष्मा हिनस्ति ॥५॥ गङ्गाधरः-अंसेत्यादि। यस्य शोषिणो राजयक्ष्मिणः अंसाभितापो भुजयोरूद्ध देशयोरुपतापः हिका च शोणितस्य रक्तस्य दर्शनञ्चानाहः पाश्वशूलभ, अन्ताय मरणाय स्यात् ॥६॥ गङ्गाधरः-वातव्याधिरित्यादि। वाताज्जातोऽसाधारणो नानात्मजो व्याधियस्य स तथा। रक्ती रक्तपित्ती। अचिकित्स्या असाध्याः। मन्देषु अल्पेष्वपि बलमांसक्षयेऽल्पदोषेष्वपि बहुदोषेषु सुतरां वातव्याध्यादीन परिवर्जयेत् ॥७॥ गङ्गाधरः-विरेचनेत्यादि। यो नरो विरेचनहतानाहः विरेचनेन हतो जित आनाहो यस्य स तृष्णानुगतो यदि विरिक्तः सन् पुनराधमाति वायुना पूर्णोदरो भवति, तदा स यथा प्रेतस्तथैव भवति ॥८॥ चक्रपाणिः-शरीरान्ता हस्तपादादयः। शोभन्त इति राजन्ते, किंवा शोभायुक्ता इव भवन्ति। वात एव व्याधिर्यस्य रोगिणः स वातव्याधिः। तानिति बलमांसक्षययुक्तान् । विरेचनहृत आनाहो यस्य स तथा ॥४-८॥ • शोफी इत्यन्यत्र पठ्यते। + विरेचनहृतानाह इति चक्रः । For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy