SearchBrowseAboutContactDonate
Page Preview
Page 1060
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २२२२ चरक-संहिता। [यस्यश्यावनिमित्तीयमिन्द्रियम् पेयं पातुन शक्नोति शुष्कत्वादास्यकण्ठयोः। उरसश्च विवन्धत्वाद् यो नरो न स जीवति ॥६॥ स्वरस्य दुर्बलीभावं हानिश्च बलवर्णयोः । रोगवृद्धिमयुत्तया च ® दृष्टा मरणमादिशेत् ॥ १०॥ ऊई श्वासं गतोष्माणं शूलोपहतवङ्क्षणम् । शर्म चानधिगच्छन्तं बुद्धिमान् परिवर्जयेत् ॥ ११ ॥ अपस्वरभाषमाणं प्राप्तं मरणमात्मनः । श्रोतारश्चाप्यशब्दस्य दूरतः परिवर्जयेत् ॥ १२ ॥ यं नरं सहसा रोगो दुर्बलं परिमुञ्चति । संशयप्राप्तमात्रेयो जीवितं तस्य मन्यते ॥ गङ्गाधरः-पेयमित्यादि स्पष्टम् ॥ ९॥ गङ्गाधरः-स्वरस्येत्यादि। स्वरस्य दुर्बलीभावं स्वरक्षीणत्वं दृष्ट्वा बलवर्णयोहोनिश्च दृष्ट्वा अयुक्त्या युक्तिं विना अर्थादनुचितक्रमेण रोगद्धिश्च दृष्ट्वा सव्र्वषां रोगिणां मरणमादिशेत् ॥ १० ॥ गङ्गाधरः-ऊ त्यादि। गतोष्माणं नित्योष्मस्थानवक्षःशिरोजिहादिषु गतोऽतीत उष्मा यस्य तं तथा, शूलोपहतवङ्क्षणं वङ्क्षणदेशेऽतिशयशूलवन्तं शर्म च क्षणमपि नाधिगच्छन्तं सर्च रोगिणं बुद्धिमान् परिवज्जयेत् ॥ ११॥ गङ्गाधरः-अपस्वरेत्यादि। अपस्वरेण विकृतस्वरेण भाषमाणं नरम् आत्मनो मरणं प्राप्तं परिवजयेत्। अशब्दस्य शब्दाभावे सति शब्दस्य श्रोतारश्च परिवज्जयेदिति ॥ १२॥ गङ्गाधरः-यं नरमित्यादि। यं दुर्बलं रोगिणं नरं सहसा स रोगो मुश्चति तस्य जीवितं संशयप्राप्तमात्रेयो मन्यते कचित् कश्चिज्जीवति महा चक्रपाणिः-अयुक्तेनेत्यनुचितरूपेण अपस्वरमिति विकृतस्वरं यथा भवति तथा भाषमाणम् । कि * अयुक्तेनेति पाठान्तरम्। + अपस्वरं भाषमाणं इति चक्रतः पाठः । For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy