SearchBrowseAboutContactDonate
Page Preview
Page 1058
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नवमोऽध्यायः। अथातो यस्यश्यावनिमित्तीयमिन्द्रियं व्याख्यास्यामः, इतिह स्माह भगवानात्रेयः॥१॥ यस्य श्यावे परिध्वस्ते हरिते चापि दर्शने। आपन्नो व्याधिरन्ताय ज्ञ यस्तस्य विजानता ॥२॥ निःसंज्ञः परिशुष्कास्यः संविद्धो * व्याधिभिश्च यः। उपरुद्धायुषं ज्ञात्वा तं धीरः परिवजयेत् ॥३॥ हरिताश्च सिरा यस्य लोमकूपाश्च संवृताः । सोऽलाभिलाषी पुरुषः पित्तान्मरणमश्नुते ॥ ४॥ गङ्गाधरः--अथावा शिरसीयेन्द्रियानन्तरम् अतश्छायाधिकाराद्धेतोः यस्य. श्यावनिमित्तीयमिन्द्रियं व्याख्यास्यामः ॥१॥ गङ्गाधरः-यस्येत्यादि। यस्य नरस्यातुरस्य दर्शने चक्षुषी परिध्वस्ते नष्टे श्यावे हरिते वा तमापन्नः प्राप्तो व्याधिस्तस्यान्ताय मरणाय विजानता भिषजा शेय इत्यर्थः ॥२॥ गङ्गाधरः-निःसंज्ञ इत्यादि। यो नरो व्याधिभिः संविद्धो निःसंशः परिशुष्कास्यश्च स्यात्, तम् उपरुद्धायुषं शाखा धीरः परिवज्जयेत् ॥३॥ गङ्गाधरः-हरिताश्चेत्यादि। यस्य सिरा हरिताः पालाशवर्णाः, लोमकूपाश्च संहता न स्वेदान् वह न्ति स यद्यम्लाभिलाषी स्यात् तदा पित्तात् पित्तजरोगान्मरणमश्नुते ॥४॥ चक्रपाणिः- यस्यश्यावनिमित्तीयोऽपि उक्तानुक्तरिष्टाभिधायकतया उच्यते। 'यस्यश्याव'शब्देन लक्षणेन 'यस्यश्याव' इत्यादिग्रन्थोक्तं रिष्टम् ग्राह्यम्। तेन यस्यश्यावरूपनिमित्तं रिष्टमधिकृत्य कृतोऽध्यायः यस्यश्यावनिमित्तीयः। समृद्ध उपचितः ॥ १-३॥ * समृद्ध इति चक्रव्याख्यातः पाठः। For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy