________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२०८
चरक-संहिता। (पनरूपीयमिन्द्रियम् उपरुद्धस्य योगेन कर्षितस्याल्पमश्नतः। बहु मूत्रपुरीषं स्याद् यस्य तं परिवर्जयेत् ॥ १५॥ दुर्बलो बहु भुङ्क्ते यः प्रागभुक्तादन्नमातुरः छ । अल्पमूत्रपुरीषश्च यथा प्रतस्तथैव सः ॥ १६ ॥ वर्धिष्णगुणसम्बरमन्नमनाति यो नरः। शश्वञ्च बलवर्णाभ्यां हीयते न स जीवति ॥ १७॥ प्रकूजति प्रश्वसिति शिथिलश्चातिसार्यते। बलहीनः पिपासातः शुष्कास्यो न स जीवति ॥१८॥ ह्रस्वञ्च यः प्रश्वसिति व्याविद्धं स्पन्दते च यः। मृतमेव तमात्रेयो व्याचचक्षे पुनर्वसुः ॥ १६ ॥ गङ्गाधरः-उपरुद्धस्येत्यादि।व्याधिना कर्षितस्य योगेनोपरुद्धस्याल्पमश्नतो यस्य मूत्रपुरीषं बहु स्यात् तं परिवज्जयेत् ॥१५॥
गङ्गाधरः-दुबैल इत्यादि। य आतुरः प्रागभुक्तात् अनातु-वस्थायां यावन्मितं भुक्तमासीत् तदभुक्ताद्वहुमानमन्नमातुरः सन आतुर्य्यावस्थायांभुङ्क्तऽथच दुब्बेलः अल्पमूत्रपुरीषश्च स्यात्, स यथा प्रेतो मृतो नरस्तथा,अर्थादासनगृत्युरित्यर्थः ॥१६॥ ___ गङ्गाधरः-वर्द्धिष्णुगुणेत्यादि। यो नरो वर्द्धिष्णुगुणसम्पन्नमन्नं न तु हीनगुणमन्नं वर्द्धिष्णु क्रमेण मानतोऽधिकमश्नाति शश्वञ्च दिने दिने च बलवर्णाभ्यां हीयते, स न जीवति ॥१७॥
गङ्गाधरः-प्रकूजतीत्यादि । यः प्रकूजति अव्यक्तशब्दं करोति प्रश्वसिति च शिथिलं द्रवं यथा स्यात् तथातिसार्य्यते वलहीनादिश्च भवति, स न जीवति ॥ १८॥
गङ्गाधरः-हस्वञ्चेत्यादि। यो हस्वमदीर्घ व्याविद्धं कुटिलम् ॥ १९ ॥
चक्रपाणिः-प्रागभुक्तति भदुर्बलः सन्नभुक्त त्यर्थः। पूर्वदिनेषु बहु भुक्ते इत्यर्थः । इष्टमिति इष्टरसम्। गुणसम्पन्नमिति पथ्यम् । शिथिलमिति पूर्वेण संबध्यते। तेन श्लथ इव प्रकूजति। प्रश्वसितीत्यन्तःश्वासं नयति । व्याविद्धमिति कुटिलम् ॥ १५-१९॥ * प्रागभुक्तानमाश्रितः इति वा पाठः ।
+ इष्टञ्च इति चक्रः ।
For Private and Personal Use Only