SearchBrowseAboutContactDonate
Page Preview
Page 1046
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७म अध्यायः इन्द्रियस्थानम् । २२०७ कामलाक्ष्णोर्मुखं पूर्ण शङ्खयोमुक्तमांसता छ । सन्तासश्चोष्णता चाङ्ग + यस्य तं परिवर्जयेत् ॥ १२ ॥ उत्थाप्यमानः शयनात् प्रमोहं याति यो नरः। मुहमहुर्न सप्ताहंस जीवति विकत्थनः॥१३॥ संसृष्टा व्याधयो यस्य प्रतिलोमानुलोमगाः। व्यापन्ना ग्रहणी प्रायः सोऽर्द्धमासं न जीवति ॥ १४ ॥ गङ्गाधरः-छायाविशेषमुक्त्वाऽपरमरिष्टं दशयति-कामलेत्यादि । यस्याक्ष्णोईयोः कामला, मुखञ्च पूर्णमुपचितं न कृशम्, शङ्खयोर्टलाटोभयदेशयोर्मुक्तमांसता हीनमांसता, सत्रासः सम्यक्त्रासस्तथाङ्गेषु चोष्णता, तं नर परिवर्जयेत् ॥१२॥ गङ्गाधरः-उत्थाप्येत्यादि। शयनात् निद्रितस्तु निद्रातः शयानः शय्यातो वा यदि उत्थाप्यमानो मुहुम्मुहुरेव प्रमोहं याति, विकत्थनः विशेषेण श्लाघया वैद्यो वदेत् इति भावः ॥१३॥ रङ्गाधरः --संसृष्टा इत्यादि । यस्य संसृष्टा अनेकव्याधयो मिलितास्तत्र मध्ये कश्चित् प्रतिलोमगोऽपरश्चानुलोमग ऊर्द्ध मार्गगोऽधोमार्गग इत्यर्थः। प्रायो ग्रहणी ग्रहणशीला नाड़ी व्यापन्ना ग्रहण्यध्यायोक्तदोपवती सोऽर्द्धमासं न जीवति ॥१४॥ काल इति परिपाककाले। कामलाक्ष्णोरिति कामलिन इव पीतानत्वम् । विकत्थन इति निन्दापरः। संसृष्टा इति परस्परसंबद्धाः। किंवा संसृष्टदोपजन्याः। प्रतिलोमानुलोमगा इति भधोमार्गोई मार्गगताः। व्यापन्ना ग्रहणीति च्छेदः । किंवा व्यापन्ना ग्रहणी यस्य स व्यापनग्रहणीक इति पाठः । 'प्रायशोऽर्द्रमासं न जीवति' इत्यनेनाईमासमतिकम्यापि मरणं भवति, न तु मरणज्यभिचारः ॥११-१४ ॥ * गण्डयोर्युक्तमांसता इति पाठान्तरम् । चोष्णगात्रञ्च इति वा पाठ For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy