________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सप्तमोऽध्यायः ।
अथातः पन्नरूपीयमिन्द्रियं व्याख्यास्यामः, इतिह स्माह भगवानात्रेयः ॥ १ ॥ दृष्ट्रा यस्य विजानीयात् पन्नरूपां कुमारिकाम् । प्रतिच्छायामयीमक्ष्णोनैनमिच्छेच्चिकित्सितुम् ॥ २ ॥ ज्योत्स्नायामातपे दीपे सलिलादर्शयोरपि । अङ्गेषु विक्रेता यस्य च्छाया प्रतस्तथाविधः ॥ ३ ॥
ङ्गधरः - अथेत्यादि । अथ कतमानिशरीरीयेन्द्रियव्याख्यानन्तरमतः शरीरीयत्वात् प्रतिच्छायादीनां परीक्षार्थं पन्नरूपीयमिन्द्रियं व्याख्यास्याम गइत्यर्थः । पन्नं गतं विनष्टं रूपं यस्याः सा पन्नरूपा । तामधिकृत्य कृत इति पन्नरूपीयस्तं तथा । सर्व्वं पूर्व्ववत् ॥ १ ॥
गङ्गाधरः- दृष्ट्वत्यादि । यस्याक्ष्णोः दृष्ट्वा भिषक प्रतिच्छायामयीं स्वकीयप्रतिविम्वमयीं कुमारिकां पुत्तलिकां पन्नरूपां विगतरूपां विजानीयात्, तमेनं पुरुषं चिकित्सतु नेच्छेदसाध्यत्वात् ॥ २ ॥
गङ्गाधरः- ज्योत्स्नायामित्यादि । यस्य अङ्गेषु ज्योत्स्नादिनिविष्टप्रतिविम्बरूपाङ्गेषु च्छाया छविर्विकृता विकृतिमापन्ना स्वरूपान्तरप्राप्ता, तथाविधः समेत मृत एवाचिरान्मृत्युत्वात् ॥ ३ ॥
चक्रपाणिः - व्याधिरूपानन्तरं वेदनोपद्रवौ सत्त्वस्वप्नौ च पूर्वाध्याय एव "शूलाटोपान्त्रकूजश्व" इत्यादिना रिष्टरूपायुक्तावेवेति कृत्वा च्छायाप्रतिच्छायारूपारिष्टस्य क्रमप्राप्तस्याभिधायक पद्मरूपीयमुच्यते । पन्नरूपामधिकृत्य कृतं पन्नरूपीयम् ॥ १ ॥
चक्रपाणिः - पन्नरूपामिति नष्टरूपाम् । कुमारिकामिति पुरुषान्तरनयनगतां कुमारिकाम् । किंवा आतुरनयनगतामेव । यदुक्तं हारीते - " अदर्शनमसंघाते नेत्र नष्ट कुमारिके" इति प्रतिच्छायामयीमिति प्रतिच्छायारूपाम् ॥ २ ॥
चक्रपाणिः - अन्यत्रापि च्छायाविकृतिमाह – ज्योत्स्नेत्यादि । अङ्गेषु विकृतेति शिरोबाहु* दृष्टयाम् इति बहुपु ग्रन्थेषु पाठः ।
For Private and Personal Use Only