________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७म अध्यायः
इन्द्रियस्थानम् ।
२२०३ छिन्ना च्छिद्राकुला च्छाया हीना वाप्यधिकापि वा। नष्टा तन्वी द्विधाच्छिन्ना विकृता ® विशिराश्च या॥ एताश्चान्याश्च याः काश्चित् प्रतिच्छाया विगर्हिताः। सर्वा मुमूर्षतां ज्ञ या न चेल्लक्ष्यनिमित्तजाः ॥ ४ ॥ संस्थानेन प्रमाणेन वर्णेन प्रभयापि वा। छाया विवर्त्तते यस्य स्वस्थोऽपि प्रेत एव सः॥
गङ्गाधरः-अस्याः प्रतिच्छायायाः विकृतिमाह-छिन्नेत्यादि। यस्य ज्योत्स्नादिषु च्छाया प्रतिविम्बरूपा प्रतिच्छायेत्यर्थः छिन्ना विच्छिन्नरूपा, किंवा च्छिद्रा च्छिद्रवती, अथवा आकुला आविला अनिश्चितप्रतिविम्बरूपा, हीना वा केनापि अङ्गप्रत्यङ्गतः न्यना, किंवा अधिका, अथवा नष्टा ज्योत्स्नादिषु च्छाया न दृश्यते, किंवा तन्वी अतिसूक्ष्मरूपा, अथवा द्विधाच्छिन्ना ज्योत्स्नादिषु द्विधाच्छेदवती दृश्यते। अथवा विकृता अननुकारिणी, किंवा विशिरा शिरोहीना। एता याः प्रतिच्छाया अन्या वा याः काश्चिद विगर्हिताः प्रतिच्छायाः सर्वाः एव ताः प्रतिच्छाया मुमूर्षतां शेयाः, चेद यदि लक्ष्यनिमित्तजा न स्युः। लक्ष्या ज्योत्स्नादयस्तदोषनिमित्तजा न चेदभवेयुरित्यर्थः। लक्ष्यदोषनिमित्तास्तु न रिष्टलक्षणम् इत्यर्थः ॥४॥
गङ्गाधरः-संस्थानेनेत्यादि। संस्थानमाकृतिः च्छाया स्वमूत्तिर्नात्र प्रतिच्छाया, यस्य विवर्तते रूपान्तरत्वेन वर्तते स स्वस्थ आतुरोऽपि प्रेत एव ।
जङ्घादिष्वधिकरणभूतेषु प्रतिच्छाया यस्य विकृता भवतीत्यर्थः। तेन व्यस्तसमस्ताङ्गविकृता च्छाया गृह्यते। अन्ये तु विभक्तिविपरिणामादङ्गानामिति व्याख्यानयन्ति, तथा च सुगम एवार्थः ॥ २॥
चक्रपाणिः-एतानेव च्छायाविकृतिभेदानाह-छिन्नेत्यादि। आकुलेति अनिश्चितप्रतिबिम्बा । अविकृता विकृतानुकारिणी। यद्यप्यरिष्टाधिकारे अनिमित्तमेव यद् भवति तदरिष्टमुक्तम्, तथापि पुनः स्पष्टार्थे 'न चेलक्ष्यनिमित्तजाः' इत्युक्तम् ॥ ४ ॥ ... चक्रपाणिः-सम्प्रति च्छायारूपं सामान्येन दर्शयन् छायाश्रयारिष्टमाह-संस्थानेनेत्यादि । एतच प्रतिच्छायायाः समानं सूत्रम् । तत्र संस्थानेन प्रमाणेन च्छायायाः प्रतिच्छायायाः स्वरूप.
* अविकृतेति चक्रः।
For Private and Personal Use Only