SearchBrowseAboutContactDonate
Page Preview
Page 735
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १७श अध्यायः सूत्रस्थानम् । ७२३ भवन्ति दोषोपचयप्रकोपप्रशमनिमित्तम् । ते तु भाद्रपदाधन द्विमासिकेन व्याख्याताः। तद्यथा-भाद्रपदाश्विनौ वर्षाः। कात्तिकमार्गशीषौ शरत् । पौषमाघौ हेमन्तः । फाल्गुनचैत्री वसन्तः। वैशाखज्यैष्ठौ ग्रीष्मः। आषाढश्रावणी प्रावृट” इत्यादि । तस्याशीतीयव्याख्याने सर्व लिखितमिति । षट्स्वृतुष्विति मोक्त्वा षट्सु कालेष्वभ्रागमेतिरूपेणोक्त्या संवत्सर इव पड़तुकोऽहोरात्रोऽपि शीतोष्णवर्षलक्षणः पूर्वरात्रपाद्यात्मकवर्षादिषडतुलिङ्गकः पित्तकफवातानां प्रचयप्रकोपप्रशमहेतुः ख्यापितः। तद्यथा-रात्रौ प्रथमदशदण्डात्मकवर्षासु पित्तमुपचीयते। मध्यरात्रे शरीद प्रकुष्यति । रात्रिशेषे हेमन्ते प्रशाम्यति । श्लेष्मा तु तत्र हेमन्ते रात्री शेषदण्डदशकरूपायां वषेत्तु लक्षणायां प्रचीयते। पूति प्रकुप्यति वसन्तलक्षणे। मध्याह्न ग्रीष्मलक्षणे प्रशाम्यति । सुश्रतेऽप्युक्तमृतुचर्याध्याये-- “तत्र पूर्वाह्न वसन्तस्य लिङ्गम् मध्याह्न ग्रीष्मस्य अपराह्न प्रावृपः प्रदोषे वार्षिकम् शारदमर्द्धरात्रे प्रत्यूषसि हैमन्तमुपलक्षयेत् एवमहोरात्रमपि संवत्सरमिव शीतोष्णवर्षलक्षणं दोपचयप्रकोपप्रशमैर्जानीयादिति ।” प्रचयादिषु प्रशब्दोपादानेन प्राधान्येन चयप्रकोपप्रशमाः ख्यापिताः। तेन वर्षासु कफस्य किश्चिञ्चयः, शरदि किश्चित्प्रकोपः, शान्तिहेमन्ते । हेमन्ते च पित्तस्य किश्चिञ्चयः, वसन्ते च किश्चित्कोपः, शान्तिीष्मादौ । ग्रीष्मोत्तरे च पित्तस्य कफस्य किश्चिच्चयः, प्रावृषि च किश्चित्कोपः, वर्षादौ शान्तिः । न वर्षान्ते । तत्र पुनश्चयः स्यादिति बोध्यम् । वस्तुतस्तु पित्तादीनामिति पूर्व पित्तस्य ग्रहणं विसर्गाभिप्रायेण। चयस्य च प्राथमिकत्वेन तदनुरोधाच चयस्य तु कफस्थाप्यादानप्रथमत्तों च सम्भवात्। यथाक्रममिति चयादिक्रमेण पित्तादीनां वर्षादिषु षट्मु एकैकशः प्रत्येक एवत्तौ यथाक्रमं भवन्तीत्यर्थः । एषा कालकृता मिथ्यायोगातियोगायोगव्यतिरिक्तसमयोगयुक्ता प्राकृता कालकृता गतिश्चयाद्या पुनश्वोच्यते। तेन उक्तञ्चान्यत्र-'चयप्रकोपप्रशमा वायोर्घादिष त्रिषु । वर्षादिषु च पित्तस्य कफस्य शिशिरादिषु ॥” कफस्य चयो वातस्य प्रकोपः । भाद्राश्विनादिद्विद्विमासरूपवर्षादिषु त्रिषु क्रमेण यथा पित्तस्य चयप्रकोपप्रशमाः, कफस्य चयप्रकोपप्रशमाः, वातस्य चयप्रकोपप्रशमा भवन्ति, ज्ञेयम्, तेन प्रावृषि श्लेष्मपित्तकोपेनाप्रधानेन न व्यभिचारः ; यदुक्तम्-“वर्षास्वग्निबले हीने कुप्यन्ति पवनादयः” इत्यत्र हि पवनादय इति पवनप्रधानाः, एवं वसन्ते वातपित्तप्रकोपे व्याख्येयम् । अत्र च पट्सु ऋतुपु पित्तश्लमवातानां प्रबलचयादयः विभज्यमानत्वेन पित्तचयकाले वातस्य कोपः, शरदि पित्तस्य प्रकोपकाले वातप्रशमः, हेमन्ते पित्तप्रशमः, कफस्य चयः, वसम्से For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy