SearchBrowseAboutContactDonate
Page Preview
Page 734
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ७२२ चरक संहिता | चयप्रकोपप्रशमाः पित्तादीनां यथाक्रमम् । भवन्त्येकैकशः षट्सु कालेष्वभ्रागमादिषु ॥ ६० ॥ Acharya Shri Kailassagarsuri Gyanmandir [ कियन्तः शिरसीयः ख्यापनायोक्ता । एताश्च तिस्रो गतयः तिस पणीये त्रिविधरोगमागव्याख्याने विस्तरेण व्याख्याताः । गतिमुपसंहरति-- इत्युक्तेत्यादि । विधिभेदेनेतिविधिस्तु प्रकारः । अन्वयवान् प्रकारः, निरन्वयो भेद इति । तेनाभिन्नजातीयानामेव कस्यचिद्धर्मान्तरस्य योगः प्रकारः समाने भावे वर्त्तते । संख्यावन्मात्रे तु भेद इति । विधिभेदेन क्षयादेकप्रकारेण ऊद्ध दिवकप्रकारेण कोष्ठादेवप्रकारेण विधेरपि भेदेन त्रिविधा गतिरित्युक्ता ॥ ५९ ॥ 1 1 1 गङ्गाधरः- क्षयादिप्रकाराणां चयत्वादिप्रकारत्वाभावात् पुनर्गतिप्रकारं पृथगाह चयेत्यादि । चयेति प्रचयः प्राधान्येन चयः । प्रकोपश्च प्राधान्येन कोपः । प्रशमोऽपि प्रकर्षेण शम इति बोध्यम् । अभ्रागमो वर्षाः । तदादिषु षट्सु वर्षाशरद्धेमन्तवसन्तग्रीष्पमासु कालेष्वृतुषु । पित्तादीनामिति पित्तकफवातानामेकैकशो अयौगपदेवन पृथक् पृथगित्यर्थः । यथाक्रमं प्रचयप्रकोपप्रशमा भवन्ति । 1 तेन प्राग् दक्षिणायनादेको मास आषाढ़, परश्चैको मासः श्रावण: ; तौ मातृट् । ततो वर्षा भाद्राश्विनयोः पित्तं प्रचीयते । शरदि कार्त्तिकाग्रहायणयोः प्रकुप्यति । ततः प्रागुत्तरायणादेको मासः पौषः परको मास माघ इति पौषमाः प्रशाम्यति । श्लेष्मा तु पौषमाघयोहेमन्ते प्रचीयते । फाल्गुनचैत्रयोवेसन्ते प्रकुप्यति । वैशाखज्यैष्ठयोग्रमे प्रशाम्यति । वातः पुनस्तत्र वैशाखज्यैष्ठात्मके ग्रीष्मे प्रचीयते । आषाढश्रावणात्मिकायां प्रावृषि प्रकुप्यति । भाद्राश्विनयोर्वर्पासु प्रशाम्यति । अभ्रागमादिष्वित्यत्रादिशब्देन तद्गुणसंविधानबहुव्रीहिणा पूर्वपूव्र्वस्य प्रशमकालमादायैवोत्तरोत्तरस्य प्रचयादौ कालत्रयं विवक्षितमाचाय्येण । तेनोक्ता व्याख्या न व्याहन्यते । सुश्रुते तु ऋतुचर्याध्याये सूत्रस्थान –“इह तु वर्षाशरद्धेमन्तवसन्तग्रीष्ममावृषः पड़तवो For Private and Personal Use Only प्रकारोऽवस्था वा । चय इत्यत्र प्रशन्दोलुप्तनिर्दिष्टः तेन प्रकृष्टचयः, एवं प्रशमोऽपि एतेन वर्षादिषु पितादीनां प्रकृष्टश्चयो भवतीति दर्श्यते, इतरदोषस्यापि च स्तोकमात्रेण चयो यथासम्भवं सूच्यते ; तेन शरधनुबलत्वेन कफप्रकोपो भवतीत्यादि गृहीतं स्यात् ॥ ५९ ॥ चक्रपाणिः - यथाक्रममिति वर्षाशरद्धेमन्तग्रीष्मप्रावृट्क्रमेण, किंवा यथाक्रममिति यथायोग्यतथा । पित्तादीनामिति पित्तश्लेष्मवातानाम्, एकैकश इति अयोगपद्य ेन, एतच्च प्राधान्येनैव
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy