________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७२४
चरक-संहिता। [कियन्तःशिरसीयः गतिः कालकृता चैषा चयाद्या पुनरुच्यते।
गतिश्च द्विविधा दृष्टा प्राकृती वैकृती तथा ॥६१॥ तथा पुनः फाल्गुनचत्रादि-द्विद्विमासात्मकवसन्तादिषु त्रिषु क्रमेण पित्तस्य चयप्रकोपप्रशमाः, कफस्य चयप्रकोपप्रशमाः, वातस्य चयप्रकोपप्रशमा भवन्ति । तथा सति षटसु वर्षादिषु पित्तस्य प्रथमा द्वितीयाश्चयप्रकोपप्रशमाः। वर्षाषु पित्तस्य चयः शरदि प्रकोपो हेमन्ते प्रशमः। पुनर्वसन्ते चयो ग्रीष्मे प्रकोप प्राषि प्रशमः। एवं कफस्य हेमन्ते चयो वसन्ते प्रकोपो ग्रीष्मे प्रशमः। पुनः प्रारपि चयो वर्षासु प्रकोपः शरदि प्रशमः। तथा वायोग्रीष्मे चयः प्राषि प्रकोपो वर्षासु प्रशमः। पुनः शरदि चयो हेमन्ते प्रकोपो वसन्ते प्रशमः। इत्येकैकशः पट्टतुषु द्विधा गतिः प्राकृती वैकृती च दृष्टा पूर्वाश्चयप्रकोपप्रशमाः प्राकृती गतिः । शेषा वैकृती गतिरिति । एवमहोरात्रेऽपि पट्मु भागेषु द्विविधा गतिः प्राकृती वैकृती च द्रष्टव्या। एवन्तु प्रकृतिस्थः कालोऽपि हेतुर्निजानां व्याधीनां न तु मानसानां कालादीनामित्यतस्त्रिविधहेतुषु नोक्तः ॥६॥
गङ्गाधरः-ननु प्राषि पित्तस्य शरदि कफस्य वसन्ते वातस्य प्रशमहेतुस्तर्हि “वर्षासु मारुतो दुष्टः पित्तश्लेष्मान्वितो ज्वरम् । कुर्यात् पित्तश्च शरदि तस्य चानुबलः कफः॥ कफो वसन्ते तमपि वातपित्तं भवेदनु॥” इति वचनद्वयं कथं संगच्छते इत्याकाङ्क्षायामाह-गतिः कालेत्यादि। एषा उक्तरूपा चयप्रकोपप्रशमात्मिका गतिः कालकृता ऋतुस्वभावादेव भवति। न तु निदानान्तरमपेक्षते। निदानविशेषात् पुनरतो विपर्ययेणापि भवतीति कालकृता चेति चकारेण शापितम् । तथा सति कात्तिकाग्रहायणात्मिकायां शरदि कालस्वभावात् प्रकुपिते पित्ते सति काले स्वभावात् शान्तोऽपि कफः किश्चित्तुषारपतनान्निःशेषेण न प्रशाम्यति, अनुबन्धरूपेणावतिष्ठते वायुचयारम्भान्मध्ये। एवं वसन्ते च कालस्वभावात् हेमन्तसञ्चितः प्रकोपमापन्नः कफः प्रबलः, वायुस्तत्र शान्तोऽप्यादानस्वभावेन सूर्यसन्तापरोक्ष्यात निःशेषेण न प्रशाम्यति। सशेषखमापन्नोऽनुवन्धरूपेण कुप्यति। तत्र चयारम्भेण मध्यम कफप्रकोप एव परं, तथा कफप्रशमके ग्रीष्मे वातचय इति च स्यात् । वातं परित्यज्य पित्तादीनामित्यभिधानं विसर्गस्याभिप्रेतत्वेनाग्रे वक्तव्यत्वात् कृतम्, विसर्गे च पित्तचय एव स्यादिति कृत्वा ॥६ ॥
चक्रपाणि:-गतिभेदान्तरमाह-गतिश्चेत्यादि ।-अन्न पित्तमादौ कृतं शरीरस्थितिहेत्वग्नि
For Private and Personal Use Only