________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६०
चरक-संहिता। पड़ विरेचनशताश्रितीयः पद्मोत्पलनलिन-कुमुद-सौगन्धिकपुण्डरीकशतपत्रमधुकप्रियङ्गु-धातकीपुष्पाणीति दशेमानि मूत्रविरजनीयानि भवन्ति (४)।
वृक्षादनीश्वदंष्ट्रावसुकवशिरपाषाणभेददकुशकाशगुन्द्रं त्कटमूलानीति दशेमानि मूत्रविरेचनीयानि भवन्ति (५)।
इति पञ्चकः कषायवर्गः। द्राक्षाभयामलकपिप्पलीदुरालभाशृङ्गीकण्टकारिकावृश्चीरपुननवातामलक्य इति दशेमानि कासहराणि भवन्ति (१)।
शटी-पुष्करमूलाम्लवेतसैला-हिग्वगुरुसुरसा-तामलकीजीवन्तीचण्डा इति दशेमानि श्वासहराणि भवन्ति (२)। पद्मत्यादिना चतुस्त्रिंशो दशको मृत्रविरजनीयः कपायवर्गः। अत्र पद्मनलिन-पुण्डरीक-शतपत्राणि चखारि पद्मविशेषाणि (४)। वृक्षादनीत्यादिना पञ्चत्रिंशो दशको मत्रविरेचनीयः कपायवर्गः। तत्र वृक्षादनी वन्दारुः विदारीकन्दो वा, वसुको वसुहट्टः वकपुष्पमिति लोके, वशिरः मूसंवत्तः, पाषाणभेदः पाथरचुनीति लोके. दर्भ उलया। गुन्द्रा गुड़,ची, इत्कटः इत्कड़, तेषां मूलानि । मूत्रविरेचनीयानि प्रभावात् (५) । इति पञ्चकः पुरीषमूत्रशब्दोत्तरसंग्रहणविरजनीयविरेचनीयशब्दान्तखात् तुल्यश्रवणात् मुश्राव्यतया एकपिण्डेन पुरीषसंग्रहणादीनां पुष्कलाभिधानात् पञ्चभिः पुरीषसंग्रहणादिभिनिष्पादित एकः कषायवग इत्यर्थः ।
अथोद्दे शक्रमप्राप्तकासहरादिपञ्चककपायवर्गमाह द्राक्षेत्यादि। अत्र द्राक्षे. त्यादिना पटात्रशो दशकः कासहरः कषायवगः। अत्र शृङ्गी ककेटशृङ्गी, तामलकी भूम्यामलकी। कासहराणि प्रभावा (१)। शटीत्यादिना सप्तत्रिंशो दशकः श्वासहरः कषायवर्गः। अम्लवेतसः स्वनामख्यातः, सुरसा सोमवल्कः खदिरः (३)। पद्मभेदाश्चत्वारः, सौगन्धिकः शुन्धी (१)। वृक्षादनी वन्दाको विदारीकन्दो वा, वशिरः सूर्यावत्तः (५)।
तामलको भूम्यामलकी (6)। चण्डा चोरहुली (२)। व्यक्तः (३)। व्यक्तः (४)। फल्गुः काष्ठोडुम्बरकः (५)।
For Private and Personal Use Only