SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ४ अध्यायः ] २५६ सूत्रस्थानम् । शटीपुष्करमूलबदर वीजकण्टकारिकावृहती वृक्ष रुहाभयापिप्पलीदुरालभाकुलीरशृङ्गा इति दशेमानि हिक्कानिग्रहरणानि भवन्ति (३) । Acharya Shri Kailassagarsuri Gyanmandir इति त्रिकः कषायवर्गः । प्रियङ्ग्वनन्ताम्रास्थिकटूङ्गलोधमोचरससमङ्गाधातकीपुष्पपद्मापद्मकेशराणीति दशेमानि पुरीषसंग्रहणानि भवन्ति (१) । जम्बूशल्लकीत्वक कच्छुरामधुकशाल्मली श्रीवेष्टक भृष्टमृत्पयस्योत्पल तिल करणा इति दशेमानि पुरीषविरजनीयानि भवन्ति (२) जम्ब्वाम्र-प्र-वट कपीतनोडुम्बराश्वत्थ-भल्लातकाश्मन्तकसोमवल्का इति दशेमानि मूत्रसंग्रहणानि भवन्ति (३) । निग्रहणः कषायवर्गः । तृष्णानिग्रहणानि प्रभावात् (२) । शटीत्यादिना त्रिंशो दशको हिकानिग्रहणः कषायवर्गः । अत्र वदरवीजमित्येकं, वृक्षरुहा बन्दारुः, कुलीरशृङ्गी कर्कटशृङ्गी । हिक्कानिग्रहणानि प्रभावात् ( ३ ) । इति त्रिकः निग्रहणान्तत्वेन तुल्यश्रवणात् सुश्राव्यतया पुष्कलाभिधानात् त्रिभिइछर्दिनिग्रहणादिभिनिष्पादित एकः कषायवर्ग इत्यथेः । अथोदे शानुक्रमप्राप्त पुरीपसंग्रहणादिपञ्चकं कषाय वर्गमाह – प्रियङ्वित्यादि । तत्र प्रियग्वित्यादिना पुरीपसंग्रहण एकत्रिंशो दशकः कषायवर्गः । तत्रानन्ता अनन्तमूल, कट्टुङ्गः श्योणाकः, मोचरसः शाल्मलीवेष्टः, पद्मा ब्राह्मणयष्टी, पद्मकेशरं पद्मकिञ्जल्कः । पुरीषसंग्रहणानि भिन्नमलमात्रसंग्रहणानि प्रभावात् (१) । जम्बुत्यादिना पुरीषविरजनीयो द्वात्रिंशो दशकः कषायवगः । तत्र शल्लकी शिकक्षस्तस्यास्त्वक् । कच्छुरा शुकशिम्बी, दुरालभा वा । शाल्मली शाल्मलीवेष्टः । श्रीवेष्टो नवनीतखोटी। भृष्टमृदग्निना भर्ज्जनेन दग्धमृत्तिका । पयस्या विदारीकन्दः । तिलकणाः तिलतण्डुलाः । पुरीषविरजनीयानि प्रभावान् (२) । जम्बाम्र त्यादिना त्रयस्त्रिंशो दशको मूत्रसंग्रहणः कषायवर्गः । तत्र कपीतनो गन्धभाण्डः, आम्रातकः । अश्मन्तकोऽम्ललोटकः, सोमवल्कः खदिरः, मूत्रसंग्रहणानि प्रभावात् (३) । मोचरसः शाल्मलीवेष्टः, पद्मा ब्राह्मणयष्टिका ( 1 ) । शलको स्वनामप्रसिद्धा, कच्छ, रा शूकशिम्बा, शाल्मली शिमलीआठा, श्रीवेष्टको नवनीतखोटी (२) । कपीतनो गन्धमुण्डः, अश्मन्तकोऽम्ललोटः, For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy