SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ४र्थ अध्यायः । २६१ सूत्रस्थानम् | पाटलाग्निमन्थविल्वश्योरणाककाश्मर्थ्य कण्टकारिका बृहतीशालपर्णीपृश्निपर्णीगोक्षुरका इति दशेमानि शोथहराणि भवन्ति (३) । शारिवा - शर्करापाठामञ्जिष्ठाद्रा नापीलुपरूषकाभयामलकविभीतकानीति दशेमानि ज्वरहराणि भवन्ति ( ४ ) । द्राक्षा-खर्जूर- पियाल - बदर दाड़िमफल्गुप रूप के क्षुयवषष्टिका इति दशेमानि श्रमहराणि भवन्ति (५) । इति पञ्चकः कषायत्रगः । Acharya Shri Kailassagarsuri Gyanmandir लाजाचन्दनकाश्मर्थ्यफलमधुकशकरानीलोत्पलोशीरशाांरवागुडूचीहीराणीति दशेमानि दाहप्रशमनानि भवन्ति (१) । पर्णासः तामलकी भूम्यामलकी, चण्डा चोरपुष्पी । श्वासहराणि प्रभावात् ( २ ) | पाटलेत्यादिना अष्टाशो दशकः श्वयथहर कपायवर्गः । दशमूलनामानि । श्वयथुहराणि प्रभावात् ( ३ ) | शारिवेत्यादिना एकोनचत्वारिंशो दशको ज्वरहरः कषायवर्गः । तत्र शर्करा सिता । ज्वरहराणि प्रभावात् ( ४ ) | द्राक्षेत्यादिना चत्वारिंशो दशकः श्रमहरः कषायवर्गः । तत्र फल्गुः काष्ठोडुम्बरकः । श्रमहराणि प्रभावात् (५) । इति कासहरादिभिः पञ्चभिः कषायवर्गे हैरशब्दान्तखेन तुल्यश्रवणात् सुश्राव्यतया पुष्कलाभिधानात् निष्पादित एकः कषायवर्ग इत्यर्थः । तत्र अथोद्द शक्रमप्राप्तदाहप्रशमनादिपञ्चककपायवर्गमाह - लाजेत्यादि । लाजेत्यादिना एकचत्वारिंशो दशको दाहमशमनः कषायवर्गः । तत्र चन्दन श्वेतचन्दन रक्तावजयत्वादस्य दाहप्रशमनत्वम् । अत्र गुड़ चीस्थाने पद्मक जतूकर्णः पठति । यद्यपि “अर्कागुरुगुडूचीनां तिक्तानां चौष्ण्यमिष्यते” इति वचनादुष्णत्वेन दाहप्रशमनत्वं न लभ्यते, तथापि तिक्तरसप्रभावात् तल्लभ्यत लाद जतूकर्णपाठात् गुड़ चीस्थाने पद्मकः, यदि वा “अर्कागुरुगुडूचीनां तिक्तानाञ्चौष्ण्यमिष्यते” इति वचनात् यद्यप्युष्णा गुडूची, तथापि तस्या दाहप्रशमकत्वं प्रभावाद For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy