SearchBrowseAboutContactDonate
Page Preview
Page 1152
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २९श अध्यायः सूत्रस्थानम् । ११४१ बहुविधविधानयुक्तानाञ्च * स्नेह्यस्वेद्यवम्यविरेच्यविविधौषधोपचागणाञ्च कुशलाः, शिरोरोगादेश्च दोषांशविकल्पजस्य व्याधिसंग्रहस्य संचयपिड़काविद्रधेस्त्रयाणाश्च शोफानां बहुविधशोफानुबन्धानामष्टचत्वारिंशतश्च रोगाधिकरणानां चत्वारिंशदुत्तरस्य नानात्मकस्य व्याधिशतस्य, तथा विगर्हितातिस्थूलकृशानां सहेतुलक्षणोपक्रमाणां स्वप्नस्य च हिताहितस्यास्वप्नातिस्वप्नस्य च सहेतृपक्रमस्य षण्णाश्च लङ्घनादीनामुपक्रमाणाम्, सन्तर्पणातपणजानाञ्च रोगाणां स्वरूपप्रशमनानाच शोणितजानाञ्च व्याधीनां मदमूर्छायसन्यालानाच सकारणरूपौषधानाञ्च कुशलाः, कुशलाश्चाहारविधिविनिश्चयस्य प्रकृत्या च हिताहितानामाहारविकाराणां सायासंग्रहस्यासवानां चतुरशीतेद्र व्यगुणविनिश्चयस्य रसानुरससंश्रयस्य सविकल्पिकवरोधिकस्य द्वादशवर्गाश्रयस्य चान्नपानगणस्य सगुणप्रभावस्य सानुपानगुणश्य नवविधस्यार्थसंग्रहस्याहारगतेश्च हिताहितोपयोगविशेषात्मकस्य च शुभाशुभविशेषस्य धात्वाश्रयाणाञ्च रोगाणां सौषधसंग्रहाणाम् , दशानाञ्च प्राणायतनानां यश्च वक्ष्यामि मानार्थमर्थेदशमहामूलीयं त्रिशत्तममध्यायम् ; तत्र च कृत्स्नस्य तन्त्रोदेशव्यवस्थापयितारः। तथा स्नेह्याद्यौषधोपचाराणाञ्च कुशलाः। रोगचतुष्के शिरोरोगादीनां व्याधिशतस्येत्यन्तानां कुशलाः। योजनाचतुष्के विगहिताष्टकातिस्थूलादीनां विशाने कुशलाः । अन्नपानचतुष्के लाहारविधिविनिश्चयादिसौषधसंग्रहाणामित्यन्तानां कुशलाः। अस्मिन्नध्याये दशानां प्राणायतनानां 'विविधमशितपीतम्" इत्यादिना; तन्त्रोद्देशलक्षणस्येति, तत्र तन्त्रोद्देशः "भटौ स्थानानि" इत्यादिना, तन्त्रलक्षणन्तु आयुषो चेदस्य च यन्निरुक्ती लक्षणं वक्ष्यति ; अत्र स्थानार्थज्ञाने * बहुविधानामुक्तानामिति पाठान्तरम् । For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy