SearchBrowseAboutContactDonate
Page Preview
Page 1151
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दशप्राणायतनीयः ११४० चरक-संहिता। ससंग्रहव्याकरणस्य सत्रिविधौषधग्रामस्य प्रवक्ता:, पञ्चत्रिंशतो मूलफलानां चतुर्णाश्च महास्नेहानां पञ्चानाश्च लवणानामष्टानाश्च मूत्राणामष्टानाञ्च क्षीराणां क्षीरत्वगवृक्षाणाञ्च षण्णाम् शिरोविरेचनादेश्च पञ्चकर्माश्रयस्यौषधगणस्याष्टाविंशतेश्च यवागूनां द्वात्रिंशच्चूर्णप्रदेहानां षण्णाञ्च विरेचनशतानां पञ्चानाश्च पञ्चकानाम्, स्वस्थवृत्तावपि च भोजन-पान-नियमस्थानचंक्रमणशयनासनमात्राद्रव्याञ्जनधूमनावनाभ्यञ्जन-परिमार्जन-वेगावधारण + व्यायामसात्म्येन्द्रिय परीक्षणोपक्रमणसद्वृत्तकुशलाः, चतुष्पादोपगृहीते च भेषजे षोड़शकले सविनिश्चये सत्रिपर्येषणे सवातकलाकलज्ञाने व्यपगतसन्देहाः, चतुर्विधस्य च स्नेहस्य चतुर्विंशत्युपनयनस्योपकल्पनीयस्य चतुःषष्टिपर्यन्तस्य व्यवस्थापयितारः, स्वस्थातुरपरायणहेतुज्ञानमूत्रलिङ्गज्ञानसूत्रौषधज्ञानसूत्रस्य संग्रहः संक्षेपवचनं व्याकरणं तद्विस्तरवचनं ताभ्यां सहितस्य, त्रिविधमौषधं दैवव्यपाश्रययुक्तिव्यपाश्रयसत्वावजयभेदात् तेषां ग्रामः समूहस्तत्सहितस्य, प्रवक्तारो व्याख्यातारः। सत्रिविधौषधस्य ग्राम इह तन्त्रे पश्चत्रिंशतो मूल फलानां मूलिन्यः षोड़श फलिन्य एकोनविंशतिः क्षीरवग्यक्षाणां षण्णामित्यन्तानां प्रथमाध्यायोक्तानां प्रवक्तारः। द्वितीयाध्यायोक्तस्य शिरोविरेचनादः प्रवक्तारम् । तृतीयाध्यायोक्तस्य चौषधगणस्य। चतुर्थाध्यायोक्तानां पडूविरेचनशतादीनां प्रवक्तारः। स्वस्थचतुष्कोक्तभोजनपानादीनां प्रवचने कुशलाः । निर्देशचतुष्कोक्तंषु षोड़शकलभेषजतद्विनिश्चययोस्तिस्त्रषणीयोक्तार्थ वातकलाकलीयोक्तार्थशाने व्यपगतसन्देहाः। कल्पनाचतुष्के। स्नेहस्येत्यानुरक्तस्य लक्षणस्य' इत्यन्तेन सूत्रस्थानार्थसंग्रहो यथाक्रममनुसारणीयः ; ससंग्रहव्याकरणस्येति - "सामान्यञ्च विशेषञ्च” इत्यादि दीर्घजीवितीये संग्रहः, व्याकरणञ्च “सामान्यमेकत्वकरम्” इत्यादि ; सत्रिपर्येषण इति एषणात्रययुक्त' ; विविधस्येति "चरः शरीरावयवाः” इत्यादेः ; आहारगतेति * कषायशतानामिति चक्रोक्तः पाठः । + विधारणविधारणेति वा पाठः। For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy