SearchBrowseAboutContactDonate
Page Preview
Page 1153
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दशप्राणायतनीयः चरक-संहिता। दशप्राणायतनीयः लनणस्य *, ग्रहणधारण विज्ञान प्रयोग-कर्म-कार्यकालकर्त्तकरणकुशलाः, कुशलाश्च स्मृतिमतिशास्त्रयुक्तिज्ञानस्य, अात्मनः शीलगुणैर विसंवादनेन सम्पादनेन च सर्वप्राणिषु चेतसो मैत्रास्य मातृपितृभ्रातृवन्धुवत् । एवमुक्ता भवन्त्यग्निवेश प्राणानामभिसरा हन्तारो रोगाणामिति ॥ ४॥ • अतो विपर्ययेणाभिसरा रोगाणाञ्च हन्तारः प्राणानाम् । भिषक्छद्मसु प्रतिच्छन्नाः कण्टकभूता लोकस्य प्रतिरूपेण इत्युक्तधर्माणो राज्ञां प्रमादादेव चरन्ति राष्ट्राणि । लेषामिदं विशेषविज्ञानं भवति। अत्यर्थ वैद्यवेशेन यश्च मानार्थमर्थदशमहामूलीयं वक्ष्यामि त्रिंशत्तममध्यायं तत्रोक्तस्य कृत्स्नस्य तन्त्रोदेशलक्षणस्य कुशलाः। ग्रहणादिकुशलाश्च स्मृत्यादिकुशलाश्च । आत्मनः शीलगुणैर्विसंवादनाभावेन सच्चप्राणिषु मातृभ्रातृपितृवन्धुवत् चेतसो मैत्रास्य सम्पादनेन च कुशलास्ते प्राणाभिसरा अग्निवेश ॥४॥ ___ गङ्गाधरः-अतो विपय्येयेण भिषजो रोगाणाञ्चाभिसराः प्राणानां हन्तारः। ते च द्विविधास्तत्र भिपकछद्मसु भिषग्वेशेषु प्रतिरूपेण छन्ना लोकस्य कष्टकभूताः प्रतिरूपेण । इत्येवम् उक्तथर्माणः पुरुपा राज्ञां प्रमादादनवनाद्राष्ट्राणि चरन्ति । राजभिस्तु वैद्य परीक्ष्य राष्ट्र चिकिसाथ नियुक्ताश्चिकित्सेयुभिषक छद्मसु प्रतिच्छन्नास्तु राजभिरज्ञाताश्चिकित्सार्थ राष्ट्राणि चरन्ति प्राणांश्च बहूनांघ्नन्ति । ___ कथमेते विज्ञायन्त इति ? अत आह-तेषामित्यादि । अत्यर्थमित्यादि। ये वैद्यवेशनात्यर्थं श्लाघमानाः कर्मलोभाचिकित्साकम्मेणि धनलाभार्थं लोभात् कौशलमभिधायान्यथाप्याह-तन्त्रस्येत्यादि। गृहीतस्योत्तरकालस्मरणं धारणम् ; विज्ञानम् अर्थतो ज्ञानम् ; प्रयोगश्चिकित्साप्रयोग ; कर्म अनेकधा चिकित्साकरणम् ; कार्य धातुसाम्यम् ; कालः क्रियाकालः ; कर्तेह भिषक ; करणं भेषजम् ; शास्त्रसंयुक्तिः शास्त्र योजना ; युक्तिज्ञानस्येति कुशलसंयोगात् करणे षष्टी। आत्मन इत्यादि।-आत्मनः शीलगुणैः करणभूत: मातृपितृबन्धुवत् सर्वप्राणिषु चेतसो मैत्रस्य सम्पादनेन तथाऽविसंवादनेन कुशला इति ग्रन्थसम्बन्धी बोद्धव्यः। भिषक्छद्म वञ्चनार्थकृतभिषक्वेशः, प्रतिरूपकः अन्यथारूपकारी द्रोहकारक * इतं परं तन्त्रस्येति पदमधिकं क्वचित् । For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy