SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रथमो लम्बः । वैरतया तदीयपदवीमुपरुन्धद्भिरिब निजसौन्दर्यसंदर्शनार्थमागतः कुलाचलैरिव उदयास्ताचलमध्यसञ्चारखिन्नस्य सरोजबन्धोर्विश्रमाय वेधसा विरचितैरिव धराधरैर्धान्यराशिभिरुद्भासितम्, अतिदूरप्रवृद्वशाखावलयविलसितकिसलयकैतवेन हस्तमुदस्य विचित्रपतत्रिविरुतैः कल्पपादपा तुमिवाद्वयमानर्जन्मप्रभृति जलसेकाद्युपकारेण वर्धकेभ्यो वलाहकेभ्यः फलपुष्पादीनि समर्पयितुमिव मेघमण्डलमवलम्बमानरुपवनतरुपण्डैमण्डितम्, विकचनीलोत्पलनयनाभिः पद्ममुखीभिर्भूङ्गजालनोलालकाभिर्मुदितमानलाञ्छनमकरीशोभितचारुचक्रप. योधराभिर्घनपुलिननधनाभिस्तटिनीवधूटीभिः परिवृतमस्ति निस्तुलं हेमाङ्गदं नाम मण्डलम् । तत्रास्ति राजनगरी जगति प्रसिद्धा यत्सालनीलमणिदीधितिरुद्धमार्गः । राहुभ्रमेण विवशस्तरणिः सहस्त्रैः पादैर्युतोऽपि न हि लवयति स्म सालम् ॥ १३ ॥ अम्भोमुक्चुम्बिसौधध्वजपटपवनोद्धृतसप्ताश्वरथ्य__ श्रान्तेः सौदामिनीश्रीतुलिततनुलतामानिनीमानितायाः । यस्या माणिक्यगेहप्रसृतरुचिझरीकल्पितोद्यहिताने नियन्त्रीलाश्मसालद्युतिरमरपुरे वन्दनस्त्रग्बभूव ॥ १४ ॥ यस्या हरिन्मणिमयालयकान्तिजालै___ याप्ते वलाहककुलेऽपि सहस्वरश्मिः । दूर्वाम्बुबुद्धिपतदात्मरथाश्वरोध केशासहः किमकरोद्गमनेऽयने द्वे ॥ १५ ॥ यत्सुन्दरीवदनचन्द्रविलीनचन्द्र कान्ताश्मसौधगलितं सलिलं पिपामुः । For Private And Personal Use Only
SR No.020139
Book TitleChampu Jivandhar
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kuppuswami Shastri
PublisherShri Krishna Vilasa Press Tanjore
Publication Year1905
Total Pages162
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy