SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रथमो लम्बः । धर्मार्थयुग्मं किल काममूलमिति प्रसिद्ध नृप नीतिशास्त्रे । मूले गते कामकथा कथं स्यात्केकायितं वा शिखिनि प्रणष्टे ॥३३॥ ऊर्वश्यामनुरागतः कमलभूरासावकीर्णी क्षणा त्पार्वत्याः प्रणयेन चन्द्रमकुटोऽप्यर्धाङ्गनोऽजायत । विष्णुः स्त्रीषु विलोलमानसतया निन्दास्पदं सोऽप्यभू बुद्धोऽप्येवमिति प्रतीतमखिलं देवस्य पृथ्वीपते ॥ ३४ ॥ इत्यादिनीतिप्रचुरा वाणी राज्ञो न संस्थिता । कामजर्जरिते चित्ते क्षीरं छिद्रघटे यथा ॥ ३५ ॥ तदनन्तरमयं क्षितिपतिरिक्षुचापशरलक्ष्यतया मोहाक्रान्तचेतनः काष्ठान्तरविदितदुराचारं काष्ठाङ्गारमाहूयानीय च विजनं देशमेनमुवाच । कामसाम्राज्यमस्माभिः पाल्यते यन्निरन्तरम् । तत्पाल्यतामिदं राज्यं भवतावहितात्मना ॥ ३६ ॥ इति नरपतिवाणीमाहरन्नेष तोषा___ प्रतिवचनमुवाच श्रीमता न्यस्तभारम् । नृप न हि परिशक्नोम्यद्य वोढुं समस्तं वृषभ इव करीन्द्रेणार्पितं तुङ्गभारम् ॥ ३७॥ तुरगस्य खरो यथा विलासं गरुडस्येव गतानि कुक्कुटः । चटकः कलहंसकस्य यद्वत्तव मार्ग न हि गन्तुमुत्सहे ॥३८॥ इति सप्रश्रयमालपन्तं कुतुककोरकितस्वान्तं भूपतिर्वचनान्तरमत्र न वक्तव्यमिति नियम्य, धन्योऽस्मीति तन्निदेशं शिरसि निदधानं राज्यभारे नियोज्य, प्रतिदिनमेधमानरागलतालवालायितहृदयो विषयसुग्वविवशः कानिचिद्दिनानि निनाय । अथ कदाचिदवमन्नायां निशायां वारुणीसुवासिनीकज्जलकलि For Private And Personal Use Only
SR No.020139
Book TitleChampu Jivandhar
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kuppuswami Shastri
PublisherShri Krishna Vilasa Press Tanjore
Publication Year1905
Total Pages162
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy