SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जीवंधरचम्पुकाव्ये आनन्दसिन्धुजठरे विलुठन्सदायं गीवाणराजपदवीं च तृणाय मेने ॥३०॥ अर्थकदा भूपालमणिरयमग्रगण्योऽपि प्राज्ञपरिपदामधिपतिरपि राजनयविदामधिकोऽपि परावरतत्वयाथात्म्यवेदिनामुदाहरणमपि सकलममुचिताचाराणाम् , कामपरतन्त्रितचित्ततया कृत्याकृत्यमजानानः, कर्मसारथिचोदित इव सज्जनवनविलसदङ्गाराय काष्ठाङ्गाराय काश्यपी दातुमियेष । ततो विदितवृतान्ता मूर्तिमन्त इव राजतन्त्रमन्त्रा विवर्ता इव प्रजाभागधेयानां प्रकारा इव कुलप्रतिष्ठायाः परिणामा इव समानुरागाणां पारदृश्वानः शास्त्रपाथोनिधीनाममात्यमुख्याः स्वयं संमन्त्र्य नरपतिमभ्येत्य समुचितं विज्ञापयामासुः । देव त्वयि प्रथितनीतिपयोधिचन्द्रे विज्ञापनं न घटते ध्रुवमस्मदीयम् । विश्वप्रसिद्धसुरभौ मृगनाभिपुञ्जे ___ मल्लीसुमेन सुरभीकरणं यह ॥ ३१ ॥ अथापि रसनाकडूखण्डनाय विनिर्मिता । विज्ञप्तिः श्रोतुमधुना श्रीमन्तं संप्रतीक्षते ॥ ३२ ॥ देव श्रीमदीयभुनपरिवालालिता भूमिभामिनी भुनान्तरारोपणम्, नन्दनवनोल्लासिता हरिचन्दनलतेव वनान्तरम्, चूतवनकलिता मल्लीवल्लीव स्नुहिवनम्, कमलवनालया लक्ष्मीरिवार्कवनम्, अरविन्दस्यन्दिमकरन्दमुदिता चञ्चरीकपतिरिव गोक्षुरकवनम्, सज्जनसंदोहसमभ्यस्यमाना विद्येव कुदृष्टिननं नाहति । अयं किल राजधर्मः श्रीमद्भिरवश्यं ज्ञातव्यो, यन्निजहृदयमपि सर्वथा न विश्वसनीयं किमुत जनान्तरम् , किंतु सर्वेषामपि स्वीयत्वेन विश्वसनीयत्वेन च ज्ञातव्यो यथा चन्द्रसूर्यो । For Private And Personal Use Only
SR No.020139
Book TitleChampu Jivandhar
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kuppuswami Shastri
PublisherShri Krishna Vilasa Press Tanjore
Publication Year1905
Total Pages162
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy