SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जीवधरचम्पुकाव्ये तराजतकरण्डक इव ग्रहराजदर्शनभयेन सत्वरं निर्गच्छन्त्या निशास्वैरिण्या निपतितताटङ्क इव नभोवारणकुम्भस्थलकलितमौक्तिकपत्र इव अपरसिन्धुपयःपूरणार्थ यामिनीकामिनीकरकलितस्फाटिकघट इव वरुणदिशावशावल्लभशुण्डादण्डच्युतसपङ्कबिस इव मदनसायकशाणोपल इव पश्चिमदिशाविशालाक्षीपुष्पकन्दुक इव घरमधराधरदन्तावलकुम्भस्थलसंभाव्यमानशम्बरारिवजखेट इव निशाकरे, वीरजिनपतिकोपाग्निदग्धाङ्गमनङ्गं कलङ्कच्छलेन निजाङ्कमारोप्य संजिजीविषयेव संजीवनौषधानि गगनकाननेषु मार्गयित्वा तत्परिमार्गणायेव चरमशिखरिशिखरमधिरूढे, तत्र विरलतया वर्तमानैः संध्यारुणतमःकालेयपदैरङ्कितगगनपर्यङ्कतले निशाचन्द्रयोः क्रीडासंमर्दविलुलितकुसुमनिकरेष्विव म्लानतामुपगतेषु तारकानिकरेषु, निजकान्तं निःश्रीकमालोक्येव नैजतेनोविरहितेष्वौषधिनिचयेषु, अनेन कुमुदवन्धुना निनवसतिः कमलावलिर्विध्वस्तेति कोपादिव निशाकान्तानिष्कान्तायां कमलायाम्, निजनायकविरहानलघूमरेखां निर्गच्छदृङ्गमालाव्याजेनोहमन्तीषु कुमुदिनीषु, संभोगस्वेदसलिलैः प्रशान्तं मनसिजाग्निं विकचकमलरजःकणैरुद्दीपयितुमिव वहति प्राभातिके मारुते, निद्रावती सा नरपालकान्ता स्वप्नं ददर्श स्वशुभाशुभान्तम् । अस्वमगम्यं किल भावि तस्याः स्वप्नेन गम्यं बत संबभूव ।।३९॥ ततः पुरंदराशायां सन्ध्याबन्धूकसच्छविः । रुरुचे गगनाम्भोधिविद्रुमोद्यानराजिवत् ॥ ४० ॥ अथाविरासीदिवसाधिनाथः प्राचीवधूटीगृहरत्नदीपः । व्योमश्रियःसन्मणिकन्दुको वा सन्ध्याङ्गनाया मुखकुङ्कुमं वा ॥४१॥ पूर्वपयोराशितैलोपान्तविराजमाने पतङ्गपातभयेनेवोपरिविन्यस्तगगनमरकतपात्रविशोभिते प्रदीप इव, पूर्ववारिधिविद्रुमच्छटाकान्ति For Private And Personal Use Only
SR No.020139
Book TitleChampu Jivandhar
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kuppuswami Shastri
PublisherShri Krishna Vilasa Press Tanjore
Publication Year1905
Total Pages162
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy