SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चैतन्यचन्द्रोदयस्य केचित्। नवद्वीपे यादृक् समजनि दृशानः पदमसौ तदन्याकारत्वं यदपि मनसः क्षोभजनकम् । तथाप्युत्कण्ठा नः शिव शिव महत्येव बलते ानाहायं वस्तु प्रकृतिविकृतिभ्यां समरसम् ।। तदधुना जानीम क भगवान्। इति परितः परिकामन्ति । वन्यस्यां दिशि अन्य। पूर्वाश्रमे मधुरिमप्रथिमा य आसीदस्येश्वरस्य स दृशोरतिथिन नोऽभूत् । अद्यापि चेन्न स विलोक्यत एव तन्नो धिग्जन्म धिम्वपुरहो धिगसून धिगक्षि । अपरे। हन्त भो आगच्छतागच्छत। भगवानद्वैतपुरं प्रविष्ट इति श्रुतं तत्तत्रैव प्रविशाम । इति सोत्कण्ठमु पसृत्य । अहो अमी दौवारिकाः सर्वानेव निवारयन्ति।भद्रममी एवाननेया दातव्यच्च किच्चिदेतेभ्यः। इति निकटमुपसर्पन्ति । ततः प्रविशन्ति वेत्रपाणयो दारोपान्तनिविछा दौवारिकाः। दौवा । अरे पुरुषाः क्षणं विलम्बन्ता यावत्तुरीयाश्रमपरिग्रहः कृतो भगवता तावदनाहारेणैव स्थीयते। अद्यैव भिक्षा भविष्यति। तदधुना कोलाहलो न कार्य्यः। उपविश्य स्थीयता भिक्षोत्तरं भगवानवलोकनीयः। नेपथ्ये । भगवन्नित इतः। For Private And Personal Use Only
SR No.020136
Book TitleChaitanya Chandrodaya
Original Sutra AuthorN/A
AuthorKavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
PublisherBapist Mission Press
Publication Year1854
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy