SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चमाझे भगवनित्यानन्दाद्यभिनयः। ११६ भगवान्। भो अद्वैत अपूर्व नो भवनवनगमनम्। अद्वै। श्रीवासस्येव क मे तादृशं सौभाग्यम् यस्य भवने प्रतिदिनमेव देवितं देवेन। नित्या । भो अद्वैत अतःपरं महीयसी लोकयात्रा भाविनी वयं प्रकाशिनी हि भगवद्दाती तत्रापि भगवतो मथुरागमनं प्रथितमस्ति। सम्प्रति तद्भवनसुभगम्भावुक भावुके भगवति सर्व एवाऽऽबालवृद्धतरुणाः करुणापारावारमधुनैवामुमवलोकयितुं समागमिष्यन्ति लोकाः। तद्यावत् तेषां तथाप्रचारेण न भूयते तावदलक्षिता एव भवद्भवनं प्रविशाम । अवै । एवमेव । इति कतिचित्पदानि परिक्रम्य । भो देव इदमिदमस्मद्भवनं तावत प्रविश । इति सर्व प्रवेशं नाटयन्ति । नेपथ्ये। विश्वम्भरः स भगवान् जननी प्रतार्य धृत्वा यतेरनुवतिं मथुरा यियासुः । व्याजेन शान्तिपुरमागमितः स नित्या नन्देन भोचलत भोचलतेक्षणाय ॥ नित्या। याकर्ण्य निरूप्य च।। अद्वै। श्रुतं दृश्यताच्च तदिहत्या एवैते सपद्येव परस्महस्रा बभूवः। कियता विलम्बन लक्षसङ्ख्या भविष्यन्ति। तदिह दारि दौवारिक यताम्। अटे। प्रतिदारि दौवारिकाब्रियोज्य देवमग्रतः कृत्वा नित्यानन्देन सह प्रवेशं नाटयन निष्कान्तः । ततः प्रविशन्ति भगवद्दर्शनोत्कण्डिताः पुरुषाः For Private And Personal Use Only
SR No.020136
Book TitleChaitanya Chandrodaya
Original Sutra AuthorN/A
AuthorKavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
PublisherBapist Mission Press
Publication Year1854
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy