________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्वरप्रकरणम् / 763 3934 / तिङो गोत्रादीनि कुत्सनाभीक्ष्ण्ययोः (8-1-27) / तिङन्तात्पदाद्गो त्रादीन्यनुदात्तान्येतयोः / पचति गोत्रम् / पचतिपचति गोत्रम् / एवं प्रवचनप्रहसनप्रकथनप्रत्यायनादयः / कुत्सनाभीक्ष्ण्यग्रहणम् पाठविशेषणम् / तेनान्यत्रापि गोत्रादिग्रहणे कुत्सनादावेव कार्य ज्ञेयम् / ‘गोत्रादीनि-' इति किम् / पचति पापम् / 'कुत्स-' इति किम् / खनति गोत्रं समेत्य कूपम् // 3935 / तिङ्ङतिङः (8-1-28) / अतिङन्तात्पदात्परं तिङन्तं निहन्यते / ‘अग्निमीळे' / 3936 / न लुट् (8-1-29) / लुडन्तं न निहन्यते / श्वःकर्ता // 3937 / निपातैयद्यदिहन्तकुविनेचेच्चकच्चिद्यत्रयुक्तम् (8-1-30) / एतैर्निपातैर्युक्तं न निहन्यते / 'यदग्ने स्यामहत्वम्' / 'युवा यदी कृथः' / 'कुविदङ्ग आसन्' / 'अचित्तिभिश्चकृमा कच्चित्' / 'पुत्रासो यत्रं पितरो भवन्ति' // 3938 / नह प्रत्यारम्भे (8-1-31) / नहेत्यनेन युक्तं तिङन्तं नानुदात्तम् / प्रतिषेधयुक्त आरम्भः प्रत्यारम्भः / 'नह भोक्ष्यसे / 'प्रत्यारम्भे' किम् / ‘नह वैतस्मिँल्लोके दक्षिणमिच्छन्ति' // 3939 / सत्यं प्रश्न (8-1-32) / सत्ययुक्तं तिङन्तं नानुदात्तं प्रश्ने / सत्यं भोक्ष्यसे / 'प्रश्ने' किम् / 'सत्यमिद्वा उ त वयमिन्द्र स्तवाम' // 3940 / अङ्गाप्रातिलोम्ये (8-1-33) / अङ्गेत्यनेन युक्तं तिङन्तं नानुदात्तम् / अङ्ग कुरु / 'अप्रातिलोम्ये' किम् / 'अङ्ग कूजसि वृषल इदानी ज्ञास्यसि जाल्म'। अनभिप्रेतमसौ कुर्वन्प्रतिलोमो भवति // 3941 / हि च (8-1-34) / हियुक्तं तिङन्तं नानुदात्तम् / 'आ हि ष्मा यात' / आ हि रुहन्तम्' // 3942 / छन्दस्यनेकमपि साकाङ्क्षम् (8-1.35) / हीत्यनेन युक्तं साकाश्मनेकमपि नानुदात्तम् / 'अनृतं हि मत्तो वदति' / 'पाप्मा न चैनं पुनाति' / तिङन्तद्वयमपि न निहन्यते // 3043 / यावद्यथाभ्याम् (8-1-36) / आभ्यां योगे तिङन्तं नानुदात्तम् / यावद्भुङ्क्ते 'यथा चित्कण्वमावतम् // 3944 / पूजायां नानन्तरम् (8-1-37) / यावद्यथाभ्यां युक्तमनन्तरं तिङन्तं पूजायां नानुदात्तम् / यावत्पचति शोभनम् / यथा पचति शोभनम् / 'पूजायाम्' किम् / यावद्भुते। 'अनन्तरम्' किम् / यावद्देवदत्तः पचति शोभनम् / पूर्वेणात्र निघातः प्रतिषिध्यते // 3945 / उपसर्गव्यपेतं च (8-1-38) / पूर्वेणानन्तरमित्युक्तम् / उपसर्गव्यवधानार्थं वचनम् / यावत्प्रपचति शोभनम् / अनन्तरमित्येव / यावद्देवदत्तः प्रपचति शोभनम् // 3946 / तुपश्यपश्यताहैः पूजायाम् (8-1-39) / एभिर्युक्तं तिङन्तं न निहन्यते पूजायाम् / 'आदहे स्वधामनु पुनर्गर्भत्वमेरिरे' // 3947 / अहो च (8-1-40) / एतद्योगे नानुदात्तं पूजायाम् / अहो देवदत्तः पचति शोभनम् // 3948 / शेषे विभाषा (8-1-41) / अहो इत्यनेन युकं तिङन्तं वानुदात्तं पूजायाम् / अहो कटं करिष्यति // 3949 / पुरा च परीप्सायाम् (8.1-42) / पुरेत्यनेन युक्तं वानुदात्तं त्वरायाम् / अधीष्व माणवक पुरा विद्योतते विद्युत् / निकटागामिन्यत्र पुराशब्दः / 'परीप्सायाम्' किम् / न ते स्म पुराधीयते / चिरातीतेऽत्र पुरा // 3950 / नन्वित्यनुज्ञेषणायाम् (8-143) / नन्वित्यनेन युक्तं तिङन्तं नानुदात्तमनुज्ञाविषयप्रार्थनायाम् / ननु गच्छामि भोः / अनुजानीहि मां गच्छन्तमित्यर्थः / 'अनु-' इति किम् / अकार्षीः कटं त्वम्। ननु करोमि / पृष्टप्रतिवचनमेतम् // 3951 / किं क्रियाप्रश्नेऽनुपसर्गमप्रतिषिद्धम् (8-1-44) / क्रियाप्रश्ने वर्तमानेन किंशब्देन युक्तं तिङन्तं HHHHTHHTHE For Private And Personal Use Only