________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा / स्मे उपपदेऽधीष्टे लोट् स्यात् / त्वं स्माद्ध्यापय / 2821 / लिङ् यदि / (3-3-168) यच्छब्दे उपपदे कालसमयवेलासु च लिङ् स्यात्। कालः समयो वेला वा यद्भुजीत भवान् / 2822 / अर्हे कृत्यतृचश्व / (3-3-169) चाल्लिङ् / त्वं कन्यां वहः / 2823 / शकि लिङ् च / (3-3-172) शक्तौ लिङ्ग स्यात् / चात्कृत्याः / भारं त्वं वहेः / ‘माङि लुङ्' (2219) मा कार्षीः / कथं मा भवतु मा भविष्यतीति / नायं माङ् किंतु माशब्दः / 2824 / धातुसम्बन्धे प्रत्ययाः। (3-4-1) सत्कारपूर्वको व्यापार इत्युक्तम्। त्वं स्माध्यापयेति गुरुं प्रत्युक्तिः / 'स्मे लोडधीष्टे च' इत्येकसूत्रत्वेन सिद्ध योगविभागस्तु ऊर्ध्वमौहूर्तिक इत्यनुवृत्तिनिवृत्त्यर्थः। 'कालसमयवेलासु तुमुन् ' इत्युत्तरसूत्रन्तु कृदधिकारे व्याख्यास्यते / लिङ् यदि // कालसमयवेलास्वित्यनुवर्तते / सर्वलकारापवादः / तुमुनपवादश्च। भुञ्जीत भवानिति यत् तस्य काल: समयो वेला वेत्यन्वयः / अर्हे कृत्यतृचश्च॥ चाल्लिङिति // योग्ये कर्तरि गम्ये कृत्या: तृच् लिङ् चेत्यर्थः / त्वङ्कन्यां वहेरिति // कन्याविवाहस्य योग्य इत्यर्थः। शकि लिङ् च // शकि इति भावे क्विवन्तम् / शक्तौ गम्यमानायामित्यर्थः / भारं त्वं वरिति // वोढु शक्त इत्यर्थः / माङि लुङिति व्याख्यातमपि कमप्राप्तं विशेषविवक्षया पुनः स्मार्यते / ननु सर्वलकारापवादोऽयमित्युक्तम् / एवं सति मा भवतु मा भविष्यतीति कथमिति शङ्कते। कथमिति॥ परिहरति / नायं माङिति॥ किन्त्विति // इकारानुबन्धविनिर्मुक्तस्यापि अव्ययेषु पाठादिति भावः। नच माशब्दमादाय मा भवत्वित्यादि. प्रयोगसत्त्वे 'माङि लुङ्' इति व्यर्थमिति वाच्यम्। सर्वलकारविषये 'न माङयोगे' इत्यडाडूहितलुङ. न्तप्रयोगार्थन्तदावश्यकत्वात् / धातुसम्बन्धे // धातुशब्देन धात्वर्थो लक्ष्यते / धातोः सम्बन्ध इति विग्रहः / सम्बन्धस्य द्विनिष्ठत्वात् / तथाच धात्वर्थयोस्सम्बन्धे सति प्रत्ययाः स्युरिति लब्धम् / कस्मिन्नर्थे इत्याकांक्षायाङ्काले इति गम्यते / 'वर्तमाने लट्' इत्यारभ्य तत्तत्कालविशेषेप्येवं प्रत्ययविधिदर्शनात् / तत्र तत्तद्विधिभिरेव तत्तत्कालविशेषे प्रत्ययसिद्धस्ततोऽन्यस्मिन्काले 1 वस्तुतः स नास्त्येव / 'आङ्माङोश्च' इति सूत्रे भाष्ये तथा ध्वनितत्वात्-इति शेखरकृत् // For Private And Personal Use Only