SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 206 आयुर्वेदसूत्रे ___ सूत्रस्थानवचनस्यापीदमेव तात्पर्यम् । तथाहि अव्यभिचरितत्वं व्याप्तेरवच्छेदकम् । यत्र स्वादुरसवत्त्वं तत्र पवननिवर्तकत्वं इत्येवमाकारेण व्याप्तिग्रहानन्तरं अनुमितो प्रवृत्तिः । इक्षुकाण्डस्थितस्वादुरसः पवनप्रकोपनिवर्तकः, जलभूम्यात्मकावयवग्रस्तत्वात् उर्वारुकफलरसवत् । एतदनुमानेनापि एकस्वादुरसस्य पवननिवर्तकत्वं वक्तुं शक्यत एवेत्यर्थः। ननु आम्लरसवद्रव्ये कालपाकवशात् माधुर्ये जाते सति स आम्लरस एव भवति । विरसद्रव्यादनं विकारकारकम् । तद्वदेव द्विरसवट्रव्यमिति वक्तुं शक्यते । स पवननिवर्तकरस: कथं स्यादित्यस्वरसादाह-मधुरेति । ___ मधुरातिमधुरं क्रमाद्वातपित्तघ्नौ कर्फ कुरुतः ।। मधुरत्वं नाम मधुररसवव्यातिरिक्तस्वादुरसबद्रव्य पवननिवर्तकम् तत्कालवशात् मधुरीभूतं भवति । तत्स्वादुरसवद्रव्यं पित्तप्रकोपनिवर्तकं, तद्विरसवद्रव्यं न भवति । एकरसजातिविशिष्टद्रव्यत्वात् एकरसद्रव्यमेवेति । आम्लरसवदव्यत्वजातिविशिष्टद्रव्यं कालपाकजोपाधिकं मधुररसवहव्यं भवतीति यदा प्रतीयते तदा तद्विरुद्धरसवव्यं न भवति, तद्योग्यकालातीतद्रव्यभावद्रव्यत्वात् । तत्र विरसवव्यातीतकालत्वमुपाधिरितिमधुररसवदव्यं तस्मादेवातिमधुररसवदव्यं पित्तप्रकोपनिवर्तकं भवतीत्यर्थः । आम्लरसवदव्यजातिावाशष्टेकरसवव्यस्य पवननिवर्तकत्वमात्रे चरितार्थत्वात् पवनव्यतिरिक्तदोषनिवर्तकद्रव्याभावद्रव्यत्वात् इत्यत आह-आम्लेति । आम्लात्याम्लौ च तथा ॥५॥ आम्लरसजातिविशिष्टद्रव्यस्य पाककालवशात् अत्याम्लरसे जाते सति तस्य अन्यदोषनिवर्तकत्वं वक्तुं न शक्यते । For Private And Personal Use Only
SR No.020087
Book TitleAyurved sutram
Original Sutra AuthorN/A
AuthorYoganandnatha, R Shama Shastry
PublisherGovernment of Mysore
Publication Year1922
Total Pages347
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy