SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पत्रमप्रश्नः 207 एकरसजातीयद्रव्यत्वात् । तस्मात्पवननिवर्तकत्वमेव सुप्रसिद्धमिति तात्पर्यम् । लवणरसवहव्यस्यापि तथात्वादित्यत आह- लवणेति । लवणं पवनं हन्ति । कफपित्तकरणम् ॥ ६ ॥ तिक्तोषणकषायरसप्रतेिरेवाभावात् क्षारवद्दव्यत्वाञ्च पित्त प्रकोपकारकं भवतीत्यर्थः ।। ननु लवणरसस्य पवनप्रकोपकारकत्वं वक्तुमुचितम् । कफप्रकोपकार कमिति वक्तुं नोपयुज्यते । क्षारद्रव्यत्वाञ्च पवननिवर्तकं भवेदित्यस्वरसादाह--हीनेति । हीनाधिकलवणरसः कफपवनं हन्ति पित्तं कुरुते ॥ ७॥ खादुरसगुणवद्रव्यजन्यरसः लवणरसः हीनलवणरसो भवति । ततोऽधिकलवणरसः सिन्धुदेशोद्भवलवणरसः अम्लरसाधिक्यद्रव्यजन्यत्वात् । बडवानलसंयोगवजलजन्यलवणरसद्रव्यत्वात्कफनिवर्तकत्वं ब्रमः । नभ आदित्यभूतशरीरजन्यतिक्तरसस्य कफदोषप्रकोपनिवर्तकत्वं वक्तुं नभोऽनिलद्रव्यजन्यत्वादेव तिक्तरसस्य पवनप्रकोपकारकत्वं कफपित्तरोगनिवर्तकत्वं च व्याचष्टे--तिक्त इति । तिक्तः कफपित्तं हन्ति मारुतं कुरुते ॥८॥ तिक्त इति नभोऽनिलभूजन्यतिक्तरसः आकाशस्य निरव. यवद्रव्यत्वात, वायोश्च निरवयवद्रव्यत्वात् उभाभ्यां जातशरीरं तिक्तरसवद्भवति । तिक्तरसद्रव्यादनं कफप्रकोपनिवृत्ति करोति । यत्प्रतिपादितं तत्सर्व सम्यगेव प्रतिपादितम् । For Private And Personal Use Only
SR No.020087
Book TitleAyurved sutram
Original Sutra AuthorN/A
AuthorYoganandnatha, R Shama Shastry
PublisherGovernment of Mysore
Publication Year1922
Total Pages347
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy