SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org पश्चमप्रश्नः Acharya Shri Kailassagarsuri Gyanmandir 205 ननिवर्तकत्वासम्भवात् । सामुद्रजं तु न तथा । स्वादुरसत्वं जलद्रव्यस्यावच्छेदकम् । तथा सति सामुद्रजलवणं तु जलस्य स्वभावनिष्ठस्वादुरसस्य तत्रैवान्तर्भावात् लवणरसावशिष्टभूद्रव्येण जलनिष्ठस्वादुरसस्याभिपूरितत्वात् । तर्हि तथा सति अस्ति चेदुपलभ्येत । अनुपलभ्यमानत्वात् तन्नास्तीति न वक्तव्यम् । लवणविशिष्टयोग्यद्रव्यं व्यञ्जनादिद्रव्ये चितया प्रतीयते । स्वादुरुचिरेतत्स्वादुतया प्रतीतेति व्यवहर्तुं शक्यत एवेत्यर्थः । काश्चिद्भवः लवणरसविशिष्टा भवन्ति । काश्चिद्भवः स्वादुर'सावशिष्टा भवन्ति तत्तद्भूमिजलकूपादौ तथा दृष्टत्वात् । यत्रयत्र लवणरसोपलब्धिः तत्रतत्र तादृशभूमिजन्यत्वं तत्रोपाधिः । स्वादुजलविशिष्टकूपजन्यजलगुणस्वादुरसस्य प्रतीतत्वात् तत्र लवणरसजनक भूमिस्वाभावविशिष्टभूजन्यलवणत्वस्य तत्र विद्य मानत्वात् । तत्र स्वावुरसप्रतीतेः वक्तुं शक्यत्वात् । सैन्धवदेशजन्यलवणरस विशिष्टद्रव्यस्य शुद्धभूजन्यत्वात् आम्लरसवत्त्वं भूमेरवच्छेदकम् । तत्रतंत्र द्रव्यजन्यत्वादेव पवननिवर्तकत्वं वक्तं शक्यत एवेत्यर्थः । तत्र द्विरसार्थभूतद्वयद्रव्यगुणावेशिष्टत्वात् तत्र द्विरसार्थप्रवृत्तिः पवननिवर्तिकेत्यर्थः । रसहीनार्थ इति रसहीनद्रव्यं पारदादिद्रव्यम् । तत्र औधादिरसानां सर्वदा सर्वकालेऽप्रतीतत्वात् । तत्र पवननिवर्त कत्वं सर्वजनसिद्धं सर्वशास्त्रमतसिद्धम् पारद इत्युपलक्षणम् । • रसोsवरलोहादिसाधारणमहारस इति पारदशब्देन सर्वे संगृह्यते । अस्मिन्पारदद्रव्ये रसादय आविर्भूता भवन्ति । ही. नरसवत्त्वं त्वन्यद्रव्यस्य विरेककारित्वं सुप्रसिद्धम | तस्य गुणस्य पवनार्नवर्तकत्वस्य सुप्रसिद्धत्वादिति बहवः ॥ For Private And Personal Use Only -
SR No.020087
Book TitleAyurved sutram
Original Sutra AuthorN/A
AuthorYoganandnatha, R Shama Shastry
PublisherGovernment of Mysore
Publication Year1922
Total Pages347
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy