SearchBrowseAboutContactDonate
Page Preview
Page 881
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८६४ आत्मतत्त्वविवेके सटौके न कश्चिद्विशेषः । तदाहरणानि चाचैव यथायथं परिचेयानोति ॥ शङ्क० टी० । निमित्तान्तरमिति । साध्यप्रयोजकान्तरमित्यर्थः । समच्याप्योपाधौ तात्पर्यम् । विपर्यया विरोधेति। विपक्षबाधकाभावेन निराकर्तव्य इत्यर्थः । अन्वयेति। अन्वयसहचारग्रहे व्यतिरेकसहचारग्रहे वा साहायकं सहायत्वमाचरन्त्रुत्तरस्तर्क एव विपक्षे बाधक इत्यर्थः । साहायकमिति योपधाद्गुरूपोत्तमानिति भावे वुत्रप्रत्ययान्तं पदम् । अनुत्तर इति । नाम्त्युत्तरं यस्मादित्यर्थः । कतारं विनाऽपि कार्य स्यादिति विपक्षशङ्का, मा च न भवति । एतावता प्रबन्धेनाचेतनव्यापारस्य कर्तव्यापारसहभावनियमे दर्शिते अकारणककार्योत्पत्तिशङ्कापर्यवसन्नायास्तस्याः स्वक्रियाव्याघातादिनाऽनु(१)दयादित्यर्थः । स चेति । स्वापेक्षित्वमात्माश्रयः । स्वापेक्षापेक्षित्वमन्योन्याश्रयः । स्वापेक्षापेक्षापेक्षित्वादिश्चक्रकम् । आपत्तिप्रयोजकोभूतरूपवदापाद्यापादनमनवस्थेत्यादि वादिविनोदे स्फुटम् । व्याप्तेरुपाधेश्च लक्षणं, ग्रहणोपायो विवेचनं चानुमानमयूखे लौलावतीकण्ठाभरणे च दर्शितमिति तत्रैव अन्वेष्टव्यम् । ननु किं कुर्वस्तर्कः सहाय इत्यत आह । क्वचिदिति । तददाहरणानोति। आत्माश्रयादौनामुदाहरणानि। अत्रैवास्मिन्नेव ग्रन्थे क्षणिकतावादेऽपोहवादे विज्ञानवादादौ च परिचेयानौत्यर्थः । (१) दिनान्वयाद िनादिति २ पु० पा० । For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy