SearchBrowseAboutContactDonate
Page Preview
Page 882
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनुपलम्भवादः । भगौ० टी० । ईश्वरसिद्धौ व्याप्तिमन्नं सैव केत्याह । क इति । ननु स्वभावजन्यत्वमजन्यसम्बन्धाव्यापकं स्वभावाश्रितत्वं च व्यभिचारिसाधारणमित्याह । क इति । निरुपाधित्वमिति । यावत्म्वन्यभिचारियभिचारिमाध्यमामानाधिकरयमित्यर्थः । ननूपाधिः साध्यव्यापको वाच्यः यापकत्वं च व्याप्तिनिरूप्यमित्यन्योन्याश्रय इत्याह । कः पुनरिति । उपाधेः स्वरूपमाह । साध्यप्रयोजक इति । यदीवच्छिन्नसाधने साध्यसामानाधिकरण्यमित्यर्थः । साधनाव्यापकत्व इति । व्यापकत्वं तदन्निष्ठात्यन्ताभावाप्रतियोगित्वं प्रतियोगित्वं चाभावविरहात्मत्वमिति नान्योन्याश्रयः । अधिकस्तु व्याप्तेरुपाधेश्च पल्लवः प्रमाणचतुष्कोपायेऽस्माभिः प्रपञ्चितो विस्तरतया नेह विवियते । कथं पुनरिति। सहचारव्यभिचारदर्शनादर्शनयोयभिचारिसाधारणत्वादिति भावः। विपर्ययस्येति। विपक्ष बाधकाभावादपाधेनिं विपक्षे बाधकाच्चानोपाधिकत्वज्ञानमित्यर्थः । अन्वयेति। एतेन यावद्भिर्दनिर्विपक्षबाधकावतारस्तावन्ति भूयांसि दर्शनानि विवक्षितानौति नाननुगम इत्युक्तम् । यद्यपि तर्कोऽपि व्याप्तिमूलक इति तत्रापि तर्कानुसरणेऽनवस्था । तथापि सहचारदर्शनयभिचारशङ्कानिरास एव व्याप्तिग्राहकः स च क्वचित्तात्, क्वचित् स्वतः सिद्ध एव, स्वक्रियाव्याघातेन व्यभिचारप्राङ्काया अनुदयादिति सझेपः । स चेति। श्रात्माश्रयादौनामप्यनिष्टप्रसङ्गरूपतया गोषन्यायादिभागः । न चात्माश्रयप्रपञ्चत्वमन्योन्याश्रयादेरिति वाच्यम् । दूषकताबोजसाम्येऽपि लक्षणभेदस्याविरोधात् । लक्षणं च स्वापेक्षा 100 For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy