SearchBrowseAboutContactDonate
Page Preview
Page 880
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनुपलम्भवादः। ८६३ तस्याप्यव्याप्तेरित्यर्थः । तस्येति । अचेतनत्वस्य भावाचेतनव्यापार्यत्वमित्यर्थः । उभयमुखौति । अन्वयव्यतिरेकमुखौत्यर्थः । 'रघु० टौ. । तस्येत्यादि । अदृष्टोपग्रहस्य कार्यगतेन कारणगतेन वाऽनुगतजातिविशेषेणाप्रयुक्तत्वे(१) क्वचिदेव कार्य कस्यचिदेव तदपग्रहे कार्यान्तरे, तत्रैव वा कार्य कारणान्तरस्य तदभावात्तनिबन्धनपारतन्त्र्यविरहे स्वातन्त्र्यं स्यात् । अनुगतस्तु जातिविशेषोऽनुपलम्भबाधित इत्यर्थः। स एव संस्थानविशेष एव । अत्र चेतनप्रेर्यत्वे । सा कारणवत्ता। विपक्षे । अकढके गगनादौ । स्वव्याप्यं कार्यत्वं । सपक्षे सकर्ड के । उभयमुखौ-अन्वयव्यतिरेकमुखौ । कः पुनरयं प्रतिबन्धः ! स्वाभाविकः संबन्धः। कः स्वाभाविकार्थः ! निरुपाधित्वम् । कः पुनरुपाधिः ! साध्यप्रयोजकं निमित्तान्तरम् । किमस्य लक्षणम् ! साधनाव्यापकत्वे सति साध्यव्यापकत्वम् । कथं पुनरेवं लक्षणकोऽर्थः प्रत्येतव्यो निराकर्तव्यो वा! विपर्ययाविरोधबाधकाभ्याम् । किं बाधकं ? अन्वयव्यतिरेकभूयोदर्शनसाहायकमाचरन्ननुत्तरस्तर्कः। स चाऽऽत्माश्रयेतरेतराश्रयचक्रकानवस्थानिष्टप्रसङ्गभेदेन पञ्चविधोऽपि क्वचिद् व्यभिचारं निराकुर्वाणः क्वचित्तनिबन्धनमुपाधिमवधून्वन् सहायीभवतीति फलतो (१) णोपयुक्तत्व इति २ पु० पाठः । For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy