SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आत्मतत्त्वविवेक सटीक स्यात् तदा तदसमवधानं स्यात् तदेव तु नास्ति नहि भावस्याप्यभावप्रतियोगित्वं मम्भाव्यते विरोधादिति द्वितीयविकल्पार्थः । भवतु वा भावस्याप्यभावप्रतियोगित्वं तथापि खावच्छिन्न एव काले स्वाभावः कथं भवेत् येन विद्यमानेनापि क्षेत्रेण बीजस्य समवधानं न भवेदिति हतौयविकल्यार्थः । ननु भवतु विद्यमानस्यापि तत्कोप्यभावोऽस्तु तथापि यत्रैव प्रतियोगी तत्रैव तदभावो विरुद्ध इति चतुर्थविकल्पार्थः । यत्र काले यत्र देणे यः प्रतियोगौ तस्य तत्र तदानौमभावो विरुद्ध इति पञ्चमविकन्यार्थः । यदवच्छेदेन यदा यत्र प्रतियोगौ तदवच्छेदेनैव तदैव तस्यैवाभावो विरुद्ध इति षष्ठविकल्पार्थः । सम्बन्धिन दति। महकारिममवधानं तावन्न मम्भवति यत एकस्य सहकारिण: सहकार्यन्तरमभावस्वरूपमेव न च भावाभावयोः समवधानसम्भावनेत्यर्थः । समवधाने विरोधमाह । प्रभावेति ।) (१) विरुद्यत इति सम्बड्यते । सहकारिणो यद्यभावः स्यात् तदा तदसमवधानं स्यात् तदेव तु नास्ति नहि भावस्याप्यभावो विरोधादित्यर्थः। भवतु वा भावस्याप्यभावो विरुद्ध इत्याह। तदैवेति। प्राभावप्रतियोगित्वं विरुध्यत इत्यनुषङ्गः। एवं परत्रापि भवतु वा भावममानकालौनोप्यभावस्तथापि यचैव भावस्तत्रैव तदभावः कथं स्या विरोधादित्याह। तत्रैवेति। कालभेदेनैकदेशत्वसम्भवेऽपि यदा यत्र यत्मत्त्वं तदैव तस्य तत्रामत्त्वं विरुद्धमित्याह । उभय (१) ( ) कुण्डलीस्थं पाठान्तरं ढतीयादर्शपुस्तके ऽधिकं दृश्यते । For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy