________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
तावच्छेदकत्वेन निर्वाहे तस्याः स्वातन्त्र्येण प्रतिबन्धकत्वानङ्गीकारादिति चेत् , न, प्रत्यक्षान्यत्वज्ञानत्वयोर्विशेषणविशेष्यभावे विनिगमनाविरहेण गुरुतरानन्तप्रतिबध्यप्रतिबन्धकभावप्रसङ्गात् पर्वतो वह्निमानिति शादत्वस्यैव लाघवेन प्रतिबध्यतावच्छेदकत्वौचित्यात् , द्वितीयगौरवस्य सम्प्रदायिमते दुष्परिहरत्वात् । वस्तुतः समाने विषये प्रत्यक्षसामग्र्यपेक्षयानुमितिसामग्र्या बलवत्त्वस्वीकारः शाद्धबोधसामग्र्या अपि तथात्वं स्वीकुर्वत इति नोपदर्शितकल्पनया निर्वाहः । एतेन पर्वतविशेष्यकवहिप्रकारकपरोक्षत्वस्यैव तादृशसामग्रीप्रतिबध्यतावच्छेदकत्वे सम्प्रदायिमते न गौरवम् , परोक्षत्वं चैतत्सामग्रीप्रतिवध्यतावच्छेदककोटिप्रविष्टतया पर्वतो न वह्निमानित्यादिवाधप्रतिवध्यतावच्छेदककोटिप्रविष्टतया च सिद्धौ जातिविशेष इत्युक्तावपि न क्षतिः।
उक्तदिशा तादृशजात्यन्तर्भावेन शाबोधप्रतिबन्धकताया एवायोगादिति । अथ तथापि भिन्ने विषये घटादिप्रत्यक्षेच्छाविशिष्टव तत्सामग्रीदशायां पर्वतविशेष्यकवहिप्रकारकज्ञानं जायतामित्यनुमितिविषयकेच्छाकालीनानुमितिसामग्रीकाले तदुत्तरं घटादि
प्रत्यक्षानुत्पत्तये वह्निभिन्नविषयकप्रत्यक्षत्वावच्छिन्नं प्रति तथाविधानुमित्यन्यज्ञानत्वावच्छिन्नं प्रति वा वह्नयनुमितिविषयकेच्छाविशिष्टवह्वयनुमितिसामग्रीत्वेन प्रतिबन्धकत्वकल्पनमावश्यकम् । न च भिन्नविषयकत्वनिवेशे प्रयोजनाभावः, तदनिवेशे | पर्वतो वह्निमानिति प्रत्यक्षेच्छाविशिष्टप्रत्यक्षसामग्रीकाले पर्वते वह्विज्ञानं जायतामित्यनुमितिविषयकेच्छाविशिष्टतदनुमितिसामग्रीदशायां पर्वतो वह्निमानिति प्रत्यक्षानुत्पत्त्यापत्तेः, यस्य सामग्रीमपेक्ष्य स्वभावतो बलवती यस्य सामग्री तदवृत्तिधर्मप्रकारकतद्विषयकेच्छासत्त्वे तस्यैवोत्पादनियमेन तत्र तादृशेच्छाकालेऽनुमितेरनुत्पत्या प्रत्यक्षस्यैवोत्पादसम्भवेन पर्वतो वहिमानिति प्रत्यक्षानुत्पत्ताविष्टापत्तेः कर्तुमशक्यत्वात् । एवं वहिप्रत्यक्षेच्छाविशिष्टतत्प्रत्यक्षसामग्रीकालेऽनुमितित्वप्रकारकवाहय
For Private And Personal Use Only