________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
*
अष्टसहस्री विवरणम्।। ॥३४६॥
परिच्छेदः दशमः॥
दित्येके, तेप्यसमीक्षितवाचः, कथंचिदपूर्वार्थविषयत्वादूहाख्यविकल्पस्य प्रमाणत्वोपपत्तेः प्रत्यक्षानुपलम्भयोः सन्निहितविषयबलोत्पत्तेरविचारकत्वाच्च व्याप्ती प्रवृत्त्यसंभवात् । यदि पुनरप्रमाणमेव व्याप्तिज्ञानं संबन्ध वा व्यवस्थापयेत्तदा प्रत्यक्षमनुमानं चाप्रमाणमेव स्वविषयं व्यवस्थापयेत् किं तत्प्रमाणत्वसाधनायासेन ? ॥ लिङ्गलिङ्गिसंबन्धप्रतिपत्तिरर्थापत्तेरित्यन्ये । तेषामपि संबन्धज्ञानपूर्वकत्वेऽ
पत्तेरापत्त्यन्तरानुसरणादनवस्था । तदपूर्वकत्वे स्वयमनिश्चितानन्यथाभवनस्यार्थापत्त्युदयत्वप्रसङ्गः, परस्पराश्रयणं च, सत्यनुमानज्ञाने तदन्यथानुपपत्त्या संबन्धज्ञानं, सति च संबन्धज्ञानेऽनुमानज्ञानमिति नैकस्याप्युदयः स्यात् । न चान्यत्संबन्धार्थापत्त्युत्थापकमस्त्यनुमानज्ञानाद् येन परस्पराश्रयणं न स्यात् । एतेनोपमानादेः संबन्धप्रतिपत्तिः प्रत्युक्ता । तस्मादुपमानादिकं प्रमाणान्तरमिच्छता तत्त्वनिर्णयप्रत्यवमर्शप्रतिबन्धाधिगमप्रमाणत्वप्रतिषेधः प्रायशो वक्तुर्जडिमानमाविष्करोति । इति प्रत्यक्षं परोक्षमित्येतद्वितयं प्रमाणमभ्युपगन्तव्यम् , अर्थापत्त्यादेरनुमानव्यतिरेकेपि, परोक्षेन्तर्भावात् । तदुक्तं, " प्रत्यक्षं विशदं ज्ञानं, त्रिधाश्रितमविप्लवम् ।। परोक्षं प्रत्यभिज्ञादि, प्रमाणे इति संग्रहः ॥१॥” ततः सूक्तमिदमवधारणं प्रमाणमेव तत्त्वज्ञानमिति, प्रत्यक्षपरोक्षतत्त्वज्ञानव्यक्तीनां साकल्येन प्रमाणत्वोपपत्तेः । तत्र सकलज्ञानावरणपरिक्षयविज़म्भितं केवलज्ञानं युगपत्सर्वार्थविषयम् । करणक्रमव्यवधानातिवर्तित्वात् युगपत्सर्वभासनम् । तत्त्वज्ञानत्वात्प्रमाणम् । तथोक्तं, ' सर्वव्यपर्यायेषु केवलस्य' इति सूत्रकारैः । केवलज्ञानदर्शनयोः क्रमवृत्तित्वात् चक्षुरादिज्ञानदर्शनवद्युगपत्सर्वभासनमयुक्तमिति चेत् , न, तयोयौंगपद्यात् , तदावरणक्षयस्य युगपद्भावात् , 'मोहक्षयाज्ज्ञानदर्शनावरणान्तरायक्षयाच केवलम्' इति, अत्र प्रथमं मोहमयस्ततो ज्ञानावरणादित्रयक्षयः सकृदिति व्याख्यानात् । तज्ज्ञानदर्शनयोः क्रमवृत्तौ हि सर्वज्ञत्वं कादाचित्कं स्याद् , दर्शनकाले ज्ञानाभावात्तत्काले च दर्शनाभावात् । सततं च भगवतः केवलिनः सर्वज्ञत्वं सर्व
**
%
%AC
॥३४६॥
For Private And Personal Use Only