________________
Shri Mahavir Lain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsun Gyanmandir
तथा त्रीण्येव प्रमाणानि चत्वार्येव पञ्चैव षडेवेत्यवधारणमपि, स्मृतेरागमोपमानार्थापत्त्यभावेष्वनन्तर्भावात् , तदन्तर्भावेनुमानान्तर्भाववदनवस्थानानुषङ्गादागमायुदयविरोधात् , शब्दादिस्मृतिमन्तरेण तदनुपपत्तेः । यदि पुनरागमाद्युत्थापकसामग्रीत्वाच्छब्दादिस्मृतेरागमादिप्रमाणत्वमप्युररीक्रियते तदा शब्दादिप्रत्यक्षस्यापि तत्सामग्रीत्वादागमादित्वप्रसङ्गः। तथा च स्मृतिवन्न प्रत्यक्षं प्रमाणान्तरं स्यात् । प्रमाणान्तरत्वे वा स्मृतेरपि प्रमाणान्तरत्वं, दर्शनानन्तराध्यवसायवन्निीतेपि कथंचिदतिशायनादनुमानवत् । एवं प्रत्यभिज्ञानं प्रमाणं, व्यवसायातिशयोपपत्तेः प्रत्यक्षादिवत , तत्सामर्थ्याधीनत्वात्प्रमाणत्वस्थितेः, अविसंवादस्यापि स्वार्थव्यवसायात्मकत्वात् । अन्यथा हि विसंवादः स्यात्संशयादिवत् । न चेदं प्रत्यभिज्ञानमव्यवसायात्मकं तदेवेदं तत्सदृशमेवेदमित्येकत्वसादृश्यविषयस्य द्विविधप्रत्यभिज्ञानस्याबाधितस्यारेकादिव्यवच्छेदेनावगमात् , बाध्यमानस्याप्रमाणत्वोपपत्तेस्तदाभासत्वात् । न च सर्व प्रत्यभिज्ञानं बाध्यमानमेव, प्रत्यक्षस्य तद्विषये प्रवृत्त्यसंभवादबाधकत्वादनुमानस्यापि तद्विषयविपरीत सर्वथाक्षणिकविसदृशवस्तुव्यवस्थापकस्य निरस्तत्वात्तद्वाधकत्वायोगात् । ततः प्रत्यभिज्ञानं तत्त्वज्ञानत्वात्प्रमाणं प्रत्यक्षवत् । एवं लिङ्गलिङ्गिसंवन्धज्ञानं प्रमाणमनिश्चितनिश्चयादनुमानवद् । सत्त्वक्षणिकत्वयोधूंमतत्कारणयोर्वा साकल्येन व्याप्तिप्रतिपत्तौ न प्रत्यक्षमुत्सहते, सन्निहितार्थाकारानकारित्वात इन्द्रियजमानसस्वसं. वेदनप्रत्यक्षस्य वा योगिप्रत्यक्षस्य अपरीक्षाक्षमत्वाच्च । नानुमानमनवस्थानुषङ्गात् सुदूरमपि गत्वा तदुभयव्यतिरिक्त व्यवस्थानिमित्तमभ्युपगन्तव्यम् । तदस्माकमूहाख्यं प्रमाणमविसंवादकत्वात् समारोपव्यवच्छेदकत्वादनुमानवत् । न चोहः संबन्धज्ञानजन्मा, यतोऽनवस्थानं स्यादपरापरोहानुसरणात् , तस्य प्रत्यक्षानुपलम्भजन्मत्वात् प्रत्यक्षवत्, स्वयोग्यतयैव स्वविषये प्रवृत्तेः । संवन्धज्ञानमप्रमाणमेव, प्रत्यक्षानुपलम्भपृष्ठभाविविकल्पत्वाद् गृहीतग्रहणात्, संबन्धप्रतिपत्तौ प्रत्यक्षानुपलम्भयोरेव भूयः प्रवर्तमानयोः प्रमाणत्वा
AAAACARR5525
For Private And Personal Use Only