________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsun Gyanmandir
ॐ%AGRAA
प्रमाणतः प्रत्येतुं शक्याः, संसारिशून्यत्वप्रसङ्गात् । किं तर्हि ? शुद्ध्यशुद्धिभ्यां व्यवतिष्ठन्ते, 'जीवास्ते शुद्ध्यशुद्धितः' इति वचनात् । ततः शुद्धिभाजामात्मनां प्रति मुक्तिरशुद्धिमाजां संसारः । केषांचित् प्रति मुक्तिः स्वकाललब्धौ स्यादिति प्रतिपत्तव्यम् ।। ९९ ॥
के पुनः शुद्ध्यशद्धी जीवानामित्याहुः__ यस्य यस्येति यस्य यस्य कारणस्य यद् यत्कार्यवैचित्र्यं तस्य तस्य तत्तन्नैकस्वभावकारणकृतमिति योजनीयम् । शालिबीजाङ्करवदिति शालिबीजादेकरूपाच्छाल्यङ्करस्येवोत्पतिनं त्वन्यस्येति दर्शनादिति भावः। ततोऽसाध्विदं विपक्षे बाधकं प्रमाणमिति व्यावृत्तिनिश्चयजननादित्यग्रेतनमत्र सम्बध्यते, तत्र च पञ्चमी ल्यब्लोपे व्यावृत्तिनिश्चयजननमभिप्रेत्य यदिदं विपक्षे बाधकं प्रमाणमुक्तं तदसाध्विति योगः, शङ्काव्यवच्छेदादित्यत्र चाकारप्रश्लेषः कार्यः। कालादिनेत्यनन्तरं च चकारोऽध्याहार्यः, सद्भावमेवेत्यतः पूर्वमेकान्तनित्यस्य क्षणिकस्य वेति शेषः । व्यापकस्यार्थक्रियालक्षणस्य, तदनिष्ठतया ( तदतनिष्ठतया ) व्याप्यत्वाभिमतवस्तुत्वाव्याप्यतया, एतेनैकस्वभावेश्वरखण्डनेन, 'अभिसन्धेरिति' अभिसन्धिरीश्वरे सिसृक्षासम्बन्धः, एतेन कर्मवैचिच्यादेव कामादिप्रभववैचित्र्यसमर्थनेन, भाष्ये तस्यापि बुद्धिमतः कारणस्यापि, वितनुकरणस्य तनुकरणरहितस्य, तत्कृतेः करणभुवनादिकृतेः, कालादिवदिति टीकाकृतोक्तो दृष्टान्तस्तादृशोऽपीत्यप्रेतनभाष्यफक्किकयाऽन्वेति, तद्वद्वितनुकरणस्यापीति प्रयोगश्चात्र कार्य सकर्तुकं कार्यत्वात् घटवदित्याकार एव, पक्षतावच्छेदकं च प्रागभावप्रतियोगित्वं न तु कृतिसाध्यत्वादिकमिति न सिद्धसाधनं, पक्षतावच्छेदकावच्छेदेन साध्यसिद्धेरुद्देश्यत्वाचन घटादिरूपकार्यस्य सकर्तृकत्वसिद्ध्वंशतोऽपि तत् , न चात्रशरीरजन्यत्वमुपाधिरकरादौ साध्यव्यापकत्वसन्देहेऽपि सन्दि
For Private And Personal Use Only