SearchBrowseAboutContactDonate
Page Preview
Page 739
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Sh Kailasagarsuri Gyanmandir परिच्छेदः दशमः॥ अष्टसहस्त्रीस्य साध्यत्वे स्वेष्टविघातात् , अदृष्टविशेषाश्रयस्य सामान्यस्य साध्यत्वे साध्यशून्यत्वप्रसङ्गानिदर्शनस्य । दृष्टेतरविशेषाश्रयसामान्यविवरणम् ॥ साधनेपि स्वाभिमतविशेषसिद्धिः कुतः स्यात् ?. अधिकरणसिद्धान्तन्यायादिति चेत् , कोयमधिकरणसिद्धान्तो नाम?, यत्सिद्धावन्यप्रकर णसिद्धिः सोधिकरणसिद्धान्तः। ततो दृष्टादृष्टविशेषाश्रयसामान्यमात्रस्य बुद्धिमन्निमित्तस्य जगत्सु प्रसिद्धौ प्रकरणाजगन्निर्माणसमर्थः ॥३३९॥ समस्तकारकाणां प्रयोक्ता सर्वविदलुप्तशक्तिर्विभुरशरीरत्वादिविशेषाश्रय एव सिध्यतीति चेत् , स्यादेवं, यदि सकलजगन्निर्माणसमर्थेनैकेनसमस्तकारकाणां प्रयोक्तत्वसर्वज्ञत्वादिविशेषोपेतेनाविनाभावि दृष्टेतरविशेषाधिकरणबुद्धिमत्कारणसामान्यं कुतश्चित् सिध्येत् । न च सिध्यति, अनेकबुद्धिमत्कारणेनैव स्वोपभोग्यतन्वादिनिमित्तकारणविशेषेण तस्य व्याप्तत्वसिद्धेः समर्थनात् । तथा सर्वज्ञवीतरागकर्तृकत्वे साध्ये घटादिनानैकान्तिकं साधनं, साध्यविकलं च निदर्शनम् । सरागासर्वज्ञकर्तृकत्वे साध्येपसिद्धान्तः । सर्वथा कार्यत्वं च साधनं तन्वादावसिद्धं, तस्य कथंचित्कारणत्वात् । कथंचित्कार्यत्वं तु विरुद्धं, सर्वथा बुद्धिमन्निमित्तत्वासाध्याद्विपरीतस्य कथंचिवुद्धिमन्निमित्तत्वस्य साधनात् । तथा पक्षोप्यनुमानबाधितः स्यात् , ' अकृत्रिमं जगत् , दृष्टकर्तृकविलक्षणत्वात् खादिवत् ' इत्यनुमानस्य तद्बाधकस्यान्यत्र समर्थितत्वात् । इति सूक्तं, नेश्वरकृतः संसार इति । ननु यदि कर्मबन्धानुरूपतः संसारः स्यान्न तर्हि केषांचिन्मुक्तिरितरेषां संसारश्व, कर्मबन्धनिमित्ताविशेषादिति चेत् . न, तेषां शुद्ध्यशुद्धितः प्रति मुक्तीतरसंभवादात्मनाम् । न हि जीवाः शश्वदशुद्धित एव व्यस्थिताः स्याद्वादिना याज्ञिकानामिव, कामादिस्वभावत्वनिराकरणात् , तत्स्वभावत्वे कदाचिदौदासीन्योपलम्भविरोधात् । नापि शुद्धित एवावस्थिताः कापिलानामिव, प्रकृतिसंसर्गेपि तत्र कामाद्युपलम्भविरोधात् , प्रकृतावेव कामायुपलम्भे पुरुषकल्पनावैयात् , तदुपभोगस्यापि तत्रैव संभवात् । न ह्यन्यः कामयतेऽन्यः काममनुभवतीति वक्तुं युक्तम् । नापि सर्वे संभवद्विशुद्धय एव जीवाः *60-%EREOS Vi॥३३९॥ For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy