SearchBrowseAboutContactDonate
Page Preview
Page 725
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsun Gyanmandir अष्टसहस्री विवरणम् ॥ हापरिच्छेदः दशमः॥ ॥३३२॥ एतेनान्त्यमिध्याज्ञानान्न बन्ध इत्येतदप्यपास्तं, प्रतिज्ञातविरोधाविशेषात् | रागादिदोषसहितान्मिथ्याज्ञानाद्वन्धो निर्दोषान्न बन्ध इत्यपि प्रतिज्ञातविरोधि कापिलानां, वैराग्यसहितात्तत्त्वज्ञानान्मोक्षवचनवत् । एतेनैतदपि प्रत्याख्यातं, यदुक्तं परेण 'दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तराभावान्निःश्रेयस' इति, मिथ्याज्ञानादवश्यं दोषोद्भूतौ दोषाच्च प्रवृत्तेधर्माधर्मसंझिकायाः प्रादुर्भावे, ततोपि जन्मनः प्रसूतौ, ततोपि दुःखस्यैकविंशतिप्रकारस्य प्रसवे, केवलिनः साक्षादशेषतत्त्वज्ञानवतोऽसत्त्वप्रसङ्गात् , अस्मदादिप्रत्यक्षानुमानोपमानागमैः प्रमाणैः सकलतत्त्वज्ञानासंभवान्निःशेषमिथ्याज्ञाननिवृत्त्ययोगात् सकलझेयविशेषाणामानन्त्यात् , सोयं प्रमाणार्थोऽपरिसंख्येयः प्रमाणभृद्भेदस्यापरिसंख्येयत्वादिति स्वयममिधानात् । न च मिध्याज्ञानस्य कात्स्न्नानिवृत्तौ सकलदोषनिवृत्तिः। तदनिवृत्तौ च न प्रवृत्तिनिवृत्तिः । तदनपाये च न जन्मनोऽपायः । ततो नाशेषदुःखापायश्च । इति गता निःश्रेयसकथा । यदि पुनरात्माद्यपवर्गपर्यन्तप्रमेयतत्त्वज्ञानादपरनिःश्रेयसप्राप्तिरिष्यते न पुनः प्रमाणादिषोडशपदार्थविशेषतत्त्वज्ञानाद् येन ज्ञानस्तोकादेव विमोक्षसिद्धेः केवली न स्यादिति मतं, तदा बहोमिथ्याज्ञानाद्वन्धः किं न भवेत् ? तत्त्वज्ञानेन तस्य प्रतिहतत्वादिति चेत् , कथमेवं मिथ्याज्ञानाद् ध्रुवो बन्धः स्यादित्युक्तम् ? दोषसहितान्मिध्याज्ञानाद्बन्ध इति चानेन निराकृतं, योगिज्ञानात् प्राग्दोषानिवृत्तेस्तत्कारणमिध्याज्ञानसंततेः संभवात् । एतेन वैशेषिकमतमपास्तम् ' इच्छाद्वेषाभ्यां बन्ध' इति, केवल्यभावाविशेषात् । अविद्यातृष्णाभ्यां बन्धोवश्यंभावी । “दुःखे विपर्यासमति-स्तृष्णा वा बन्धकारणम् ।। जन्मिनो यस्य ते न स्तो, न स जन्माधिगच्छति॥१॥” इति ताथागतमतमपि न सम्यक्, योगिज्ञानाभावप्रसङ्गात्। अयोगिनः प्रत्यक्षानुमानाभ्यामखिलतत्त्वज्ञानरूपाया विद्याया एवायोगात् तद्विशेष(षय) झेयस्यानन्त्यात् । स्वय 'मनन्ता लोकधातव' इति वचनात्। न चाविद्यानुच्छेदे तृष्णा निवर्तते यतः सुगतः स्यात् । अथ ज्ञानस्तोका NAGAR ॥३३ For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy