SearchBrowseAboutContactDonate
Page Preview
Page 719
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir अष्टसहस्री विवरणम्॥ SES परिच्छेदः नवमः॥ ॥३२९॥ KASARASH द्वयात् । स्यादवक्तव्यं, सहार्पिततवयात् । स्यात् पुण्यहेतुरवक्तव्यं च, स्यात्पापहेतुरवक्तव्यं च, स्यादुभयं चावक्तव्यं च, खहेतुविषयात् । इति सप्तभङ्गीप्रक्रिया पूर्ववद्योजनीया ॥ ९५ ॥ विशुद्धिसङ्क्लेशाङ्गं चेदिति, अत्राङ्गशब्दार्थ त्रिधा व्याचष्टे विशुद्धिकारणस्येत्यादिना, विशुद्धिस्वभावत्वमकारणाकार्यत्वे सति तनियतत्वम् , एवं सङ्क्लेशस्वभावत्वमपि व्याख्येयम् । अत्र निश्चयतो विशुद्धिसंक्लेशयोरेव पुण्यपापहेतुत्वं, व्यवहारतस्तु तदुत्कर्षकत्वेन तद्द्वारा तदङ्गनानाविधबाह्यहेतूनामिति नयविभागो द्रष्टव्यः, तथा च पारमर्षम् “अणुमित्तो वि ण कस्सइ, बंघो परवत्थुपच्चया भणिओ ॥ तह वि खलु जयंति जइणो, परिणामविसोहिमिच्छंता ॥१॥" इत्यादि । नन्वागमे मिथ्यादर्शनादीनां बन्धहेतुत्वमुक्तम् , अत्र तु सङ्क्तेशाङ्गस्येति कथं न विरोध इति चेत् , न, आगमे उपादानहेतूनामेव परिसख्यानादत्र च तेषामन्येषां च सङ्क्लेशाङ्गपदोपादानेनैव सङ्ग्रहादविरोधादित्याशयवानाह-मिथ्यादर्शनावि| रतीत्यादि, कायेत्यादि, सङ्क्तशाङ्गव्याख्यानस्य या दिक् सैव विशुद्ध्यङ्गव्याख्यानस्येत्यतिदिशति- एतेनेत्यादि' एवं व्यवस्थिते बाह्यक्रियाणां कर्मपुद्गलसम्बन्धहेतुत्वं साधयितुमनुमानप्रयोगमाह-तदेवं विवादाध्यासिता इत्यादिना, स्यादवक्तव्यं सहार्पितद्वयादिति प्रशस्ताप्रशस्तभेदेनाध्यवसायस्थानानां द्विविधानामेव व्यवस्थितत्वात्तत्तृतीयराश्यभावेनैकदाविशुद्धिसङ्क्लेशाङ्गोभयरूपस्य कस्यापि व्यापारस्य वक्तुमशक्यत्वादित्यर्थः । यतु अविधिना दानादिव्यापारस्य शुभाशुभयोगत्वमुच्यते, तद्व्यवहारत एव, न तु निश्चयतः, तत्राविधिदानपरिणामयोर्यदंशे उत्कटत्वं तदंशस्यैव फलवच्चं, नान्यस्य, अन्यथा ततो मिश्रकर्मबन्धप्रसङ्गात् , न च मिश्रं कर्म किश्चिदस्ति बन्धतः, केवलं सङ्कमत एव मिश्रमोहनीयमेक ॥३२९॥ For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy