________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
द्विविधं हि दैवं, पुण्यं पापं च प्राणिनामिष्टानिष्टसाधनमुक्तं, 'सद्वेद्यशुभायुर्नामगोत्राणि पुण्यम् , इतरत् पापम् ,' इति वचनात् । तदास्रवनिमित्तविप्रतिपत्तिप्रतिपत्त्यर्थमिदमुक्तम् । तत्र परसंताने दुःखहेतुः पुरुषः पापमात्मन्यास्रवयति सुखहेतुः पुण्यमिति परत्र सुखदुःखोत्पादनात् पुण्यपापबन्धैकान्ते कथमचेतनाः क्षीरादयः कण्टकादयो वा न बध्येरन् ? परस्मिन् सुखदुःखयोरुत्पादनात् । चेतना एव बन्धाही इति चेत् , तर्हि वीतरागाः कथं न बध्येरन् ? तन्निमित्तत्वाद्वन्धस्य । तेषामभिसन्धेरभावान्न बन्ध इति चेत्, तर्हि न परत्र सुखदुःखोत्पादनं पुण्यपापबन्धहेतुरित्येकान्तः संभवति ॥ ९२ ॥ पुण्यं ध्रुवं स्वतो दुःखा-त्पापंच सुखतो यदि ॥ वीतरागो मुनिर्विद्वां-स्ताभ्यां युज्यान्निमित्ततः॥१३॥
स्वस्मिन् दुःखोत्पादनात् पुण्यं सुखोत्पादनात्तु पापमिति यदीष्यते तदा वीतरागो विद्वांश्च मुनिस्ताभ्यां पुण्यपापाभ्यामात्मानं युज्यानिमित्तसद्भावात्, वीतरागस्य कायक्लेशादिरूपदुःखोत्पत्तेर्विदुषस्तत्त्वज्ञानसंतोषलक्षणसुखोत्पत्तेस्तन्निमित्तत्वात् ।
स्यान्मतं- स्वस्मिन् दुःखस्य चोत्पत्तावपि वीतरागस्य तत्त्वज्ञानवतस्तदभिसंधेरभावान पुण्यपापाभ्यां योगस्तस्य तदभिसंधिनिबन्धनत्वात्' इति तीनेकान्तसिद्धिरेवायाता । आत्मसुखदुःखाभ्यां पापेतरैकान्तकृतान्ते पुनरकषायस्यापि ध्रुवमेव बन्धः स्यात् । ततो न कश्चिन्मोक्तुमर्हति, तदुभयाभावासंभवात् । न हि पुण्यपापोभयबन्धाभावासंभवे मुक्तिर्नाम, संसृतेरभावप्रसङ्गात् । ततो नैतावेकान्तौ संभाव्येते दृष्टेष्टविरुद्धत्वात् सदायेकान्तवत् ।। ९३ ॥ मत्तव्यालकरालकालफणिराडुत्फालसिंहार्णव-ज्वालाजालजटालपावकरणप्रौढव्यथाबन्धजाः॥ यान्त्यष्टापि भियःक्षयं भवभृतां यन्नाममन्त्रस्मृते-स्तं श्रीमत्फलवामिण्डनमहं ध्यायामि पार्श्वप्रभुम् ॥१॥
SAROSARDS
For Private And Personal Use Only