SearchBrowseAboutContactDonate
Page Preview
Page 682
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir भोत्स्यते बाधकामावादित्याशङ्कायामाह-तथात्मसंवेदनेपीत्यादिना, प्रमाणान्तरापेक्षयेति, यत्रैव जनयेदेनामित्याद्युक्तेरिति भावः । तस्योपजीव्यस्य, सविकल्पकज्ञानरूपप्रमाणान्तरस्य स्वतोऽव्यवसायस्यापि दर्शनस्याभ्यासादेर्निश्चायकता भविष्यतीत्याशङ्कायामाह-व्यवसायाभावे विति' तथा च सविकल्पकज्ञानरूपाभ्याससहकृतदर्शनस्य निश्चायकत्वं सहकृतेत्यादेर्व्यर्थत्वात् , अन्यथा तादृशाकाशादेरपि तथात्वप्रसङ्गादिति भावः। तर्हि मासिधत् क्षणिकत्वादिसंविदा स्वतः, परत एव सेत्स्यतीत्याशङ्कायामाह-नापि परत इत्यादि, भाष्ये स्वांशेति, स्वांशो दृश्यविकल्पैकत्वाभिप्रायेण प्रातीतिकसम्बन्धेन प्रकृततत्वघटकः सामान्याकारः, नान्यथेति दृष्टान्ताभावादिति भावः। तत्सम्भव इति वेद्यसम्भव इत्यर्थः । नान्यत्रेति सर्व भ्रान्तं ग्राह्यग्राहकाकारक्रोडीकृतत्वादित्यस्य संवितक्षणिकत्वानुमानेनैवानकान्तिकत्वादित्यर्थः ॥ ७९ ॥ साध्यसाधनविज्ञप्त-यदि विज्ञप्तिमात्रता। न साध्यं न च हेतुश्च प्रतिज्ञाहेतुदोषतः॥८॥ प्रतिज्ञादोषस्तावत्स्ववचनविरोधः साध्यसाधनविज्ञानस्य विज्ञप्तिमात्रमभिलपतः प्रसज्यते । तथा हि । सहोपलम्भनियमादभेदो नीलतद्धियोर्रिचन्द्रदर्शनवदित्यत्रार्थसंविदोः सहदर्शनमुपेत्यैकत्वैकान्तं साधयन् कथमवधेयाभिलापः ? स्वोक्तधर्मधर्मिभेदवचनस्य हेतुदृष्टान्तभेदवचनस्य चाद्वैतवचनेन विरोधात् , संविदद्वैतवचनस्य च तद्भेदवचनेन व्याघातात् , तद्वचनज्ञानयोश्च भेदे तदेकत्वसाधनामिलापविरोधात्, तदभिलापे वा तद्भेदविरोधात् । इति स्ववचनयोर्विरोधाद्विभ्यत् स्वाभिलापाभावं वा स्ववाचा प्रदर्शयन्कथं स्वस्थः ? सदा मौनव्रतिकोहमित्यभिलापवत् स्ववचनविरोधस्यैव स्वीकरणात् । तथा विज्ञानवादिनोऽप्रसिद्धविशेष्यत्वमप्रसिद्धविशेषणत्वं च प्रतिज्ञादोषः स्यात् , नीलतद्धियोर्विशेष्ययोस्तदभेदस्य च विशेषणस्य स्वयमनिष्टेः । पराभ्युपगमेन प्रसङ्गसाधनस्योपन्यासा For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy