________________
Shri Mahavir Jain Aradhana Kendra
अष्टसहस्री विवरणम् ।।
३१०॥
99%
www.kobatirth.org
दोषवचनात् । संवित् क्षणिकत्वादावनुमानवेदनस्य तत्संभवे नान्यत्र बहिरर्थे तदसंभवोभिधेयः, सर्वथा विशेषाभावात् । तत्स्वपरपक्षयोः सिद्ध्यसिद्ध्यर्थं किंचित्कथंचित्कुतश्चिदवितथज्ञानमादरणीयमन्यथाऽशेषविभ्रमासिद्धेः । ननु किंचित्संविदद्वैतं कथंचित्संविदात्मना कुतश्चित्स्वतः सत्यप्रतिभासनमाद्रियत एव स्वरूपस्य स्वतो गतिरिति वचनादिति चेत्, न, स्वरूपेपि वेद्यवेदकलक्षणाभावे तदघटनात् पुरुषाद्वैतवत् । एतेन यद्वाग्राहकाकारं तत्सर्वं विभ्रान्तं यथा स्वप्रेन्द्रजालादिज्ञानं तथा च प्रत्यक्षादिकमिति प्रतिविहितं वेदितव्यं, भ्रान्तत्वप्रकृतानुमान ज्ञानयोर्ग्राह्यग्राहकाकारयोरभ्रान्तत्वे ताभ्यामेव हेतोर्व्यभिचारात्, तद्धान्तत्वे ततः सर्वस्य भ्रान्तत्वप्रसिद्धेः, सर्वभ्रान्तौ साध्यसाधनविज्ञप्तेरसंभवात्तव्याप्तिविज्ञप्तिवत्, संभवे सर्वविभ्रमासिद्धेः ॥ ७९ ॥ सारङ्गारङ्गभाजो हरिषु करियुता भोगिनस्तार्क्ष्यमध्ये नाखुर्मार्जारमुग्रं गणयति न च गौर्व्याघ्रवालं करालम् । देवा हेवाकभाजोऽसुरततिमिलने यत्प्रभावात्सभायां स श्रीपार्श्वः प्रसन्नो भवतु मयि कृपाकौ मलैर्दृग्विलासैः ॥
सप्तमेऽन्तरङ्गबहिरङ्गार्थैकान्तनिरासाय प्रक्रमः । ' तज्जन्मेति' तज्जन्मपक्षेऽर्थो वेद्यः, तजन्यं तद्ग्राहकमर्थज्ञानं वेदकं, ताद्रूप्यपक्षे ज्ञानगतो नीलाद्याकारो वेद्यः, नीलाकारं ज्ञानं वेदकं, तदध्यवसायपक्षे दृश्यविकल्पैकीकरणादध्यवसेयं वेद्यम्, अध्यवसायो वेदकः, चक्षुषेत्यादिना तज्जन्मादेरेकैकस्य क्रमशो व्यभिचारस्थानत्रयप्रदर्शनम्, प्रमाणाभावाच्च तदनीशत्वापादनं कृतं विज्ञानवादिनः, सह वेत्यनेन च समुदितत्रयस्य व्यभिचारप्रदर्शन पूर्वमुक्तहेतोरेव तदनीशत्वं बोध्यत इति विवेकः । कांश्चन प्रति योग्यतामिति जैनापेक्षया, क्षणिकत्वेनेत्यादि, स्वरूपमात्रसंवेदने स्वसंवेदनसामर्थ्येऽपि क्षणिकत्वादिधर्मप्रकारकप्रतिपत्तावसामर्थ्यादित्यर्थः । नन्वक्षणिकादिव्यावृत्तिरेव क्षणिकत्वादिकं तच्च धर्मिरूपं स्वत एव
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
परिच्छेदः सप्तमः ॥
॥३१०॥