________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
अष्टसहस्त्री
विवरणम्॥
परिच्छेदः षष्ठः॥
॥३०८॥
45555
र्भावाभावादित्यर्थः, “ सेषां मोहः पापीयानामृढस्येतरोत्पत्तेः" इति सूत्रे च तेषां रागद्वेषमोहानां रागमोहयोद्धेषमोहयोर्वा मध्ये मोहः पापीयान् बलवद्वेषविषयोऽमूढस्य रागद्वेषानुत्पत्तेरित्यों व्याख्यात इति बोध्यम् । तस्य युक्तियुक्तत्वविरोधादिति न हिंस्यात् सर्वाभूतानीत्यादिसामान्यश्रुत्युपवूहकतर्कविरोधादित्यर्थः । स्यात् सर्व हेतुतः सिद्धमित्यादि, ननु कथमेतत् कात्स्येन हेतुसिद्धत्वाधभिधानं घटते, हेतुसिद्धागमसिद्धानामर्थानामवान्तरविभागेनैव व्यवस्थितत्वात् , तदाह सम्मतिकारः-" दुविहो धम्मावाओ अहेउवाओ अ हेउवाओ अ, तत्थ उ अहेउवाओ भविया भविआदओ भावा ॥ १ ॥” अस्या अर्थः-धर्माणामस्तित्वादीनामासमन्ताद्वादस्तत्प्रतिपादक आगमोऽहेतुवादो हेतुवादश्चेति द्विधा, तत्र प्रमाणान्तरानवगतार्थप्रतिपादक आगमोऽहेतुवादः, तद्विपरीतो हेतुवादो, हेतोर्हेतुपरिच्छिन्नस्य वादो हेतुवाद इति व्युत्पत्तेः, तत्र त्वहेतुवादो भव्याभव्यत्वादयो भावाः, विषयाध्यवसानेन विषय्यभिधानमेतत् भव्याभव्यत्वादिप्रतिपादक आगम इत्यर्थः । नह्ययं भव्योऽभव्यो वेत्यत्रास्मदादीनां प्रमाणं प्रवर्तते, न च तद्विभागप्रतिपादकं वचनं यथार्थम् अर्हद्वचनवादित्यनुमानप्रवृत्तेाघातः, वचनविभागावच्छेदकत्वेन तत्प्रवृत्तावपि स्वातन्त्र्येण तदप्रवृत्तेः, तथा च भव्याभव्यत्वादयोऽहेतुवादसिद्धाः, अन्ये च हेतुवादसिद्धा इति, व्याप्त्या प्रकृतसप्तभङ्गी न युक्तेति चेत्, मैवं, स्याच्छब्दमर्यादयैव सर्वानुपपत्तिनिरासात् , अहेतुवादसिद्धस्याप्यर्थस्य तत्तद्धम्मिणि तत्प्रतिपादितलिङ्गेन हेतुवादत्वव्यवस्थितेः, तदुक्तं "सम्मतावेव-भविओ सम्मईसण नाणचरित्तपडिवत्तिसंपुनो। णियमा पुक्खंतकडोचि लक्खणं हेउवायस्स ॥१॥" प्रयोगश्चायम् भव्योऽयं सम्यग्दर्शनज्ञानचारित्रप्रतिपत्तिसम्पूर्णत्वात् सम्प्रतिपनपुरुषवदिति, किंबहुना? अहेतुवादसिद्धेऽप्यर्थे ततोऽनेकान्तात्मकत्वसाधिका निराकाङ्ग
॥३०॥
For Private And Personal Use Only