SearchBrowseAboutContactDonate
Page Preview
Page 676
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir ॐॐॐॐॐॐॐॐॐॐॐ इत्याप्तमीमांसालंकृतौ षष्ठः परिच्छेदः । वक्तर्यनाप्त इति, वक्तर्यनाते आप्तत्वेनानिश्चिते, साध्यं तदनाप्तत्वग्रहाभावकालीनतद्वाक्थजन्यबोधविषयः, यद्धेतोः प्रामाण्यनिश्चयहेतोः, सिद्ध्यतीति शेषः, निवृत्तप्रामाण्यसंशयाधीनसंशयकं भवतीत्यर्थः, तद्धेतुसाधितमुच्यते, आप्ते आप्तत्वेन निश्चिते वक्तरि, तद्वाक्यात्तद्वाक्यजन्यज्ञानविषयः, साध्यमुद्देश्यसिद्धिकमर्थजातं, स्वत एव निवृत्तसंशयत्वादागमसाधितमुच्यते, आप्तत्वानाप्तत्वग्रहश्च रागद्वेषमोहादिरूपदोषाभावतत्सद्भावाभ्यामन्येन वा सुपरीक्षितेन लिङ्गेनेति ज्ञेयम् । वस्तुतः सर्वत्र यथार्थवक्तृजातीयत्वमेवाप्तत्वग्राहकम् , अत एव " कप्पाकप्पे परिणिष्ट्रियस्स ठाणेसु पंचसु ठिअस्स संजमतवहगस्स ऊ | अविगप्पेणं तहक्कारोत्ति' नियुक्तिगाया कल्प्याकल्प्यपरिनिष्ठितत्वादिगुणकदम्बकवद्वक्तृवचनेऽविकल्पेन तथाकारविधाने तदि तरवचने विकल्पप्राप्तावपि संविग्नपाक्षिकवचने एकान्तत एव तथाकारःप्रामाण्याम्युपगमरूपो विधेयः, तदितरयथोक्तगुणाभाववद्वक्तवचने तु यथा हेतुवादं भजनयेति व्यवस्थितविकल्पो व्याख्यातस्तान्त्रिकैः, अभ्यधिष्महि चैतत् संवादिसामाचारीप्र| करणे "इयरंमि विगप्पेणं सो य विगप्पो ववडिओ एसो। संविग्गे गीयम्मि य तहेव अण्णत्थ जुत्तिषमे ॥१।। ति, शक्यक्रियत्वादितरत्रापीति, पिटकत्रयेऽपि वक्तुं शक्यत्वादित्यर्थः। विद्यानुवादादेव विद्याप्रवादपूर्वोद्धृतशास्त्रादेव, 'एतेनेति' मीमांसकस्य कार्येऽर्थ एव चोदनायाः प्रामाण्यादर्थवादरूपमत्रैकदेशेऽविसंवादकत्वायोगादनैकान्तिकत्वं स्फुटमेवेति भावः । न पुनरपौरुषेयस्येति, अपौरुषेयस्य पुनः संसाधनाभावादित्यन्वयो व्युत्पत्तिविशेषात् , ईदृशि स्थले प्रकृत्यान्वितनअर्थविभक्त्यर्थयोरन्वयस्वीकारात् , एवमग्रेऽप्युपयुज्य योज्यम् । अत एव न्यायचतुर्थाध्याये "नानुपमृद्य प्रादुर्भावात्” इति सूत्रेऽनुपमृद्य प्रादु For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy