________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
इत्याप्तमीमांसालंकृतौ चतुर्थः परिच्छेदः ॥ ४ ॥
'गुणीत्यादि' ततो नासिद्धो हेतुरिति, तत उक्तकारणात्, द्रव्यपर्याययोरैक्ये साध्ये प्रतिभासभेदेऽप्यव्यतिरिक्तत्वादिति मूलोक्तो हेतुर्नासिद्ध इत्यर्थः । नित्यनिरोधधर्मकत्वादिति अनित्यधर्मत्वादित्यर्थः । अत्राह साध्यहेत्वोः शब्द मेद एव नत्वर्थभेदस्तद्वत्प्रकृतानुमानेऽपीति साध्याविशेषदोषप्रसङ्गो युक्त इत्यर्थः । प्रतीतिसिद्धत्वादिति, अस्याव्यतिरिक्तत्वस्येत्यनेनान्वयः। धर्मिग्राहकप्रमाणेनेति धर्मिणोग्रहकप्रमाणेनेत्यर्थः । कथञ्चिद्भिन्नयोरेवेति अभेदसंवलितभेदवतोरित्यर्थः । द्रव्यस्यैकत्वान्वयेत्यादि एकत्वान्वयज्ञानादि कार्यं यस्येति बहुव्रीह्युत्तरस्त्वप्रत्ययो द्रष्टव्यः । एवं पर्यायस्यानेकत्वेत्यादावपि, कर्मतयेति लक्ष्यतावच्छेदकसमनियतधर्मव चनत्वस्यैव लक्षणत्वादसंकीर्णव्यवहारस्यैव च तत्प्रयोजनत्वादिति भावः । एतेन पक्षव्यापिनं एवासाधारणस्य वस्तुलक्षणत्वप्रतिपादनेन, तस्य पक्षैकदेशवर्त्तिनोऽसाधारणस्य, उपदर्शितं प्रत्येयमिति अग्निमात्रस्योष्णस्पर्शयोगित्वलक्षण इति गम्यम् || शब्दस्यानित्यत्वे श्रावणत्वदिति अत्र हि श्रावणत्वं लक्ष्यतावच्छेदकसमनियतत्वेन लक्षणं भवदनुगतानतिप्रसक्तव्यवहार इवानित्यत्वसाधनेऽपि प्रत्यलमिति तत्र सपक्षावृत्तित्वमबाधकमिति भावः । पक्षव्यापि लक्षणमिति उक्ततत्त्वमेतत्, न च वह्न्युष्णस्पर्शी प्रमेयावित्यत्र वह्विलक्षणवाक्यत्वप्रसङ्गः । तत्र लक्ष्ये लक्ष्यतावच्छेदकसमनियतत्वसंसर्गेण तद्धर्म्मबोधकवचनत्वं तत्र तल्लक्षणवाक्यत्वमित्युक्तौ दोषाभावादिति दिग् । भाष्ये अनानैकं जगत् स्यादिति नानात्वरहितं जगत् स्यादित्यर्थः । तदभ्युपगमे नानात्वाभ्युपगमे, पक्षान्तरासम्भवाद्विरुद्धधर्माध्यासास्खलद्बुद्धिप्रतिभासभेदातिरिक्तप्रकाराभावादित्यर्थः । शिष्टं स्पष्टम् ॥ ७१-७२ ॥
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir