________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsun Gyanmandir
बसहस्री 8 विवरणम्॥
२९९॥
परिच्छेदः | चतुर्थः॥
RSAROKAR
लक्षणं रूपादिबुद्धिप्रतिभासयोग्यत्वं भिन्नं प्रसिद्ध कथंचित्तन्नानात्वं चेति निरवद्यमुदाहरणम् । ननु च भिन्नलक्षणत्वं स्यान्नानात्वं च न स्याद्विरोधाभावात् । ततः सन्दिग्धविपक्षव्यावृत्तिको हेतुरिति न शङ्कनीय, विरुद्धधर्माध्यासास्खलबुद्धिप्रतिभासभेदाभ्यां च वस्तुस्वभावभेदसिद्धेः । अन्यथाऽनानैकं जगत्स्यात् , तदभ्युपगमे पक्षान्तरासंभवादिति, विपक्षे बाधकप्रमाणसद्भावाग्निश्चितव्यतिरेकत्वात् साधनस्य द्रव्यपर्याययोः सर्ववैकत्वे विरुद्धधर्माध्यासस्यास्खलबुद्धिप्रतिभासभेदस्य चायोगाद्भिन्नलक्षणत्वस्यानुपपत्तेः, व्यापकस्य प्राहकस्य चाभावे व्याप्यस्य विषयस्य चाव्यवस्थितेः । व्यवस्थितौ वा भिन्नलक्षणत्वस्य न किंचिदेकं जगति स्यात् । नापि नाना, विरुद्धधर्माध्यासाद्यभावेपि नानात्वस्य सिद्धौ तस्य तत्साधनत्वायोगात् । न चासाधना कस्यचित्सिद्धिरतिप्रसङ्गात् । न च नानात्वैकत्वाभ्युपगमे प्रकारान्तरमस्ति, यतो जगदनानैकं न स्यात् । न हि विरुद्धधर्माध्यासेतराभ्यामन्यन्नानात्वैकत्वस्वरूपम् । नाप्यस्खलद्बुद्धिप्रतिभासभेदाभेदाभ्यामन्यत्तत्साधनं, यत्प्रकारान्तरं स्यात् । ततः कारिकाद्वयेन सामान्यविशेषात्मानमर्थ संहृत्य तत्रापेक्षानपेक्षकान्तप्रतिक्षेपायाह भगवान् वास्तवमेव इति, स्यान्नानात्वमेव स्खलक्षणभेदात् । स्यादेकत्वमेवाशक्यविवेचनत्वात् । स्यादुभयमेव क्रमाप्तिद्वयात् । स्यादवक्तव्यमेव सहार्पितद्वयाद्वक्तुमशक्यत्वात् । स्यानानात्वावक्तव्यमेव विरुद्धधर्माध्याससहार्पितद्वयात् । स्यादेकत्वावक्तव्यमेव, अशक्यविवेचनसहार्पितद्वयात् । स्यादुभयावक्तव्यमेव क्रमाक्रमाप्तिद्वयात् । इति सप्तभङ्गीप्रक्रिया दृष्टेष्टाविरुद्धाऽवबोद्धव्या पूर्ववत् ॥ ७१-७२ ॥
कार्यादेर्भेद एव स्फुटमिह नियतः सर्वथा कारणादे-रित्यायेकान्तवादोद्धततरमतयः शान्ततामाश्रयन्ति । प्रायो यस्योपदेशादविघटितनयान्मानमूलादलयात् , स्वामी जीयात् स शश्वत्प्रथिततरयतीशोऽकलकोरुकीर्तिः ॥१॥
॥२९९॥
For Private And Personal Use Only